________________
काश्यपशिल्पे चतुस्विंशः पटलः । हारान्तरमथाशिं तस्योर्च वसुभाजिते । मध्ये शाला द्विभागेन शेपं पूर्ववदाचरेत् ॥९॥ तदूर्श्वभूमिविस्तारं रसभागविभाजिते । कूटमेकांशमित्युक्तं शाला तद्विगुणायता ॥ १० ॥ अधांशं पञ्जरव्यासं शेषं हारान्तरं भवेत् । तवं भूम्य(भ्व)निभागेकं मध्ये दण्डेन निगतम् ॥ ११ ॥ सप्तषष्ठी(टी)तिभागं तु कर्तव्यं सदनोदयम् । सपादाग्निरधिष्ठानं साधषटकाधितुङ्गकम् ॥ १२॥ तदधे मञ्चमानं तु पड्भागं चरणोदयम् ।। स्त्रीपादवद्विभागं तु मञ्चमानमुदाहृतम् ॥ १३ ॥ सार्थभूतांशमध्युच्चं सार्धधेशं तु प्रस्तरम् । सपादपञ्चभागं तु स्तम्भमानमुदाहृतम् ॥ १४ ॥ प्रस्तरं साधेपञ्चांशं भूतांशं चरणोदयम् । सपाद्विभागं मञ्च स्थास्त्रीपादतायगांशकम् ॥१५॥ चरणोदयमित्युक्तं मस्तरोचं द्विभागया । पादोचं सार्धवेदांशं पादोनद्वयंशमञ्चकम् ॥ १६ ॥ व्योमाशं वैदिकोत्सेधं पादोनद्वयंशकं गलम् । अर्धाधिक्ययुगांशं तु शिखरोदयमिप्यते ॥ १७ ॥ पक्षांशं स्तृपिमानं तु रव्य (ण्यं) सप्ततलं विदुः । पञ्जरं कूटकोष्टं च समसूत्रे तु कल्पितम् ॥ १८ ॥ होमादाग्रयुगाग्रं तु शिखरे वेदनासिका। . शालापत्रिंशतिर्युक्तं भानुद्विगुणकूटकम् ॥ १९ ॥ षष्टिपञ्जरसंयुक्तं पादं प्रत्यल्पनासिका। मानाधिष्ठानसंयुक्त काकारमथापि वा ॥ २० ॥ एकैनाकृतिरछी तु समुज्ज्वलमुदाहृतम् । रुदेवान्तरकूटाः स्युः सान्तरप्रस्तरान्वितम् ॥ २१॥
श्रीच्छन्दमिति विख्यातं सर्वदेवाहकं परम् । तदेव नताश्च कोष्ठोनान्ताः ( श्वानन्ताः कोष्ठाः ) समकाः ॥२२॥
श्रीविशालमिति ख्यातं सर्वदेवप्रियावहम् ।। तदेव शीर्षकण्ठं च अष्टाध वेदिका तथा ॥ २३ ॥