________________
काश्यपशिल्पे द्वात्रिंशः पटलः। सर्वकामिकमेवं तु कर्तव्यं सदनं जि। होमादिस्तूपिपर्यन्तं युगानं परिकल्पयेत् ।। ३५ ।। कलाशालाकलांसाष्टी पञ्जरं चतुरटकम् । पादाः प्रत्यल्पनासाढयं(दया)हारान्तं नासिकाद्वयम् ॥ ३६॥ भद्रनासीचतुष्क तु शिखरे च प्रकल्पयेत् । .. क्षुद्रनासीद्वयं कोणे कल्पिनं ब्रह्मकान्तकम् ।। ३७ ॥ कुटास्त्र(टेप्व)नन्तरं चाढयं (गढा चोप्राजापत्यमुदाहृतम् । तदेवोन्नतकूटं तु कोष्ठेऽनन्ताः स्वमञ्चकाः ।। ३८ ।। स्वायंभुवमिदं गेहं सर्वदेवाईक परम् । तदेव वेदिकाकोष्ठं शीर्षक वसुकोणकम् ॥ ३९ ॥ शालामध्येऽशमानेऽन्तर्नितिः कोष्ठ एव वा। : भद्रकान्तमिति ख्यातं कूटकोटे परिस्सपम् ।। ४.० ।। समनं वाऽपि प्य)मनं वा जनार्दनमुदाहृतम् । तदेव कोष्टमध्ये तु भद्रहीनमथापि वा ।। ४१॥ . मध्यमद्रयुतं वाऽपि मण्डलं शीर्षक मलम् ।। अतिभद्रामिति ख्यातं सर्वदेवाईकं परम् ।। ४२ ॥ तदेव कृटकोष्ठं च पञ्जरं च समश्चकम् । सोन्नतं सर्वतोभद्रं धर्मपीनिकरं भवेत् ।। ४३ ।। विमलं कूटकोठं च पश्चरं समसूरकम् । नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम् ।। ४४ ।। नानालंकारसंयुक्तं युग्मपञ्जरसंयुतम् । शिखरेऽष्टाल्पनासादयं महानासीचतुष्टयम् ॥ ४५ ॥ वीरभद्रमिति ख्यातं सर्वदेवपियावहम् । तदेवाष्टकशाड्यादिमादिभूमौ द्विभागया ।। ४६ ॥ भानुपञ्जरसंयुक्तं शेष प्रागिव कल्पयेत् । . मागुक्तनाम मा(चाss)ख्यातं ना(ता)स्विष्टं परिकल्पयेत् ॥ ४७॥
पञ्चभूमिसमाख्यातं पटनलं च युगं शृणु ॥ ४८ ।। इति काश्यपशिल्पे पश्चतलविधानो नाम द्वात्रिंशः पटलः ।