________________
काश्यपशिल्पे द्वात्रिंशः पटल:
द्विभागं गलमानं तु सार्थ वेदांशशीर्षकम् |
अत्यन्धं (ध) तु शिखामानं पौष्टिकं सदनं त्विदम् ॥ २० ॥ सदनोच्चं तु षट्त्रिंशद्भागं कृत्वा द्विजोत्तम । अधिष्ठानं द्विभागेन वेदांशं चरणायतम् ॥ २१ ॥ सत्रिपादशिवांशन मञ्चमानं प्रकल्पयेत् । सार्धाग्न्यिंशं तु तलिपं तदर्थं मञ्चमानकम् ॥ २२ ॥ सपादानलपाई स्यान्मञ्च पत्यर्धभागया |
८३
गुणाशं पादपीठं तु सपादांश [तु] प्रस्तरम् ॥ २३ ॥ एकांशं वेदिकामानं पादोनद्वयंशकं गलम् । सपादाग्न्यंशशिरोषे (कं शीर्ष शेषं स्तूप्युदयं भवेत् ॥ २४ ॥ जयदं भवनं ह्येवं कल्पयेत्कल्पवित्तमः । विमानोत्सेधं विभजेत्रयस्त्रिंशद्विभागया ॥ २५ ॥ द्विभागं रमणीमानं वेदांशं चरणोदयम् ।
प्रस्तरोचं द्विभागेन सार्धंत्रिंशा ङ्घ्रिणोदयम् ॥ २६ ॥ मस्तारं पादरहितं द्विभागेन विधीयते ।
:
;
त्रिभागं चरणायामं तदधै मञ्चमानकम् || २७ ॥ सार्धद्विभागपादोचं सपादांशेन मञ्चकम् । स्तम्भं पादाधिकद्वयंशं मञ्चमानं सपादकम् ॥ २८ ॥ ब्योमांशं वेदिकामानमत्यर्धाङ्गुलमानकम् | सार्धत्रिभागं शिखरं द्विभागं स्तूपमानकम् ॥ २१ ॥ अद्भुतं भवति ह्येवं कल्पये देवतार्हकम् ।
:
चतुर्विंशतिभागं तु कृत्वा च सदनोदयम् ॥ ३० अत्यर्धीशितलोत्सेधं गुणांशं पादमानकम् | तदर्थं मञ्चमानं तु पादोदकं (यं) गुणांशकम् ॥ ३१ ॥ तस्यार्थ प्रस्तरोत्सेधं द्वयर्धमयुदयं भवेत् । प्रस्तरं तु सपादर्शि स्तम्भं पादाधिकद्वयम् ॥ ३२ ॥ तदर्थं मञ्चमानं तु साष्टांशद्वयंशमङ्घ्रिकम् । एकांशं प्रस्तरोत्सेधमर्धाशं वेदिकोदयम् ॥ ३३ ॥ त्रिपादं गलमानं तु पादोनद्वयंशकं शिरः | अष्टांशरहितव्योमभागं स्तूप्युदयं भवेत् ॥ ३४ ॥