________________
७४
काश्यपशिल्पे त्रिंशः पटलः ।
दण्ड वा द्विदण्डं वा त्रिदण्डं बाऽथ निर्गतिः । वेदाश्रं तदधिष्ठानं तद्वत्कण्ठं च शीर्षकम् ।। ६५!! अष्टशालाष्टकूटं च पञ्जरं षोडशान्वितम् । नानाधिष्ठानसंयुक्तं नानापादरलंकृतम् ।। ६६ ।। उन्नतौ कूटकोष्ठौ च भान्तरणस्तरान्वितौ । गान्धारमिति विख्यातमष्टानं वा गलं शिरः ॥ ६७ ।। श्रीविशालमिति ख्यातं वर्तुला वेदिका गलम् । शीर्ष चैव च कर्तव्यं शेषं पूर्ववदाचरेत् ।। ६८ ॥ श्रीभागाढयमिति ख्यातं सर्वदेवाहकं परम् । वृत्ते वृत्तायते यत्ते चैव पडके ।। ६९ ॥ कूटकाष्ठादिसर्वाङ्ग प्रागिवैव प्रकल्पयेत् ।। वर्षस्त(क्षःस्थ)लं मण्डलं च त्यजेत्कर्ण च शीर्षकम् ।। ७० ॥ वक्षःस्थलविहीनानां क(नाम)कर्ण शीर्षसंयुतम् । कूटकोष्ठादिसर्वाङ्गमुचितं नागरादिकम् ॥ ७१ ।। नानालंकारसंयुक्तं नानाचिषिचित्रितम् । गर्भगेहं विशालं च गृहं पिण्ड्यामण्डपम् ॥ ७२ ॥ एकभूमिविधानोक्तमनुक्तानां विशेषतः ।
त्रितलं ह्येवमाख्यातं चतुर्भममयोच्यते ।। ७३ ॥ इति काश्यपशिल्प त्रितलविधानं नामकोनत्रिंशः पटलः ।
अथ त्रिंशः पटलः ।
चतुर्भूमिः ।
अथ वक्ष्ये विशेषण चतुर्भूम्यादिलक्षणम् । विस्तारोत्सेधमानं तु प्रोक्तं प्रासादमानके ॥ १॥ रव्यंशमानसूत्रं वा कृते गर्भगृहांशकम् । गृह िण्डयलिन्द्राहारं प्रत्येक चैकमागतः ॥ २ ॥