________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने पवमोऽध्यायः ।
[ पा० १,०१०२.
बहुकरीति संख्यावचनादुत्तरेण टः । जातिरिदानीं किंक- । त्वमावश्यकमेवेति हेतुसस्वेऽपि तत्स्वीकारे दोषाभाव इति शेति हेत्वादौ टः ॥ १०१ ॥ भावः । " जातिरिदानों किङ्करीति तु "हेतुतच्छील." इति टे रूपम्, यथा विद्या यशस्करी" इति हेमधातुपारायणे । पाणिनीये तु निर्गलितोऽयमंशः किङ्करीति 40 प्रयोगो वार्तिककृतो मते कियत्तद्बहुषु अहेत्वादी अचो विधानेन, हेत्वादिविवक्षायां टेन, तदविवक्षायां पुंयोगविवक्षया च साधनीयः । सूत्रमते चाहेत्वादावपि स्य विधानेन सर्वथोपपन्न एव प्रयोग इति तन्मते किकरेत्येवानुपन्नमिति । उभयविधप्रयोगदर्शनेन मतद्वय 45 मप्यादरणीयमिति प्रक्रियाग्रन्थोक्त विकल्पः फलित इति ॥ ५. १. १०१. ॥
श० म० न्यासानुसन्धानम्-- किं० किं करोमीस्याज्ञां प्रतीक्षते इति - किङ्करः इति कुरु इति 5 विनियुक्तः किमिति पृच्छति तदुत्तरं यथादिष्टं करोतीति भाव: । किङ्करशब्दो दासपर्यायः, दासस्यानुकूलत्वेनानुकूलेऽर्थे “हेतु तच्छील ०' [ ५. १. १०३. ] इति परसूत्रेण प्रत्यये विहितेऽपि किङ्करशब्दस्य सिद्धाचा 'अ'प्रत्ययविधानस्य फलं स्त्रियामिति द्योतयितुं स्त्रियामुदा10 हरति--- किङ्करा इति टप्रत्यये सति दित्त्वात् ङीः स्यात्, अप्रत्यये कृते तु आप् भवतीति भावः । एवं यत् करोतीति पुंसि - यत्करः, स्त्रियां यत्करा, तत् करोतीति पुंसि तत्करः, स्त्रियां - तत्करा । चौर्य तस्कर: इति-चौर्ये प्रवृत्तिनिमित्ते इति भावः, नहि 15 तस्करस्य चौर्यमर्थोऽपि तु चोरः, तत्रार्थे तत्कर इत्यस्यैव वर्चस्कादित्वात् तस्कर इति रूपं प्रतिपाद्यम् । बहु करोतीति- बहुकरः इति---" खलपूः स्यात् बहुकरः" इत्यभिधानचिन्तामणिः, बहुधान्यार्जक इत्यन्ये, स्त्रियांबहुकरा । स्त्रियां 'बहुकरी' इति रूपस्यापि प्रयुक्ततया 20 तत्सिद्धय पायमाह -- बहुकरोति संख्यावचनादुत्तरेण टः इति- बहुशब्दः संख्यावाची वैपुल्यवाची च तत्र वैपुल्यभिन्नार्थकस्यैव संख्यासंत्रेति "बहुगणं भेदे" [ १ . १. ४०. ] इति सूत्रे स्पष्टम्, ततश्च वैपुल्यवाचिन एवेह ग्रहणम् संख्यावाचिनस्तु "संख्या" इत्युत्तरेण 25 टो भवत्येव, तथा च दित्त्वात् स्त्रियां ङीप्रत्यये बहु
i
:
करीति “संमार्जनी बहुकरी" इति । किङ्करीशब्दस्यापि प्रयोगेषु दृष्टतयाऽऽह – जातिरिदानीं किंङ्करीति हेत्वादौ टः इति - किङ्करणशीला किंकरी, न किश्चित् करोति निष्प्रयोजनेति यावत् अत्र "हेतुतच्छीलानुकूले ०" [ ५. 30 १. १०३. ] इति टे टित्वाच स्त्रियां ङीप्रत्यये किङ्करी
शब्दसिद्धिरिति भावः । शूद्रत्वादेरिवाने कर्व्यावृत्तित्वेन जातित्वमिति तदाश्रयणेन वृत्तिग्रन्थ उपपन्नः तथा च वृषलीति यथा भवति तथैव किङ्करीत्यत्रापि ङीर्भवतीति तस्य सिद्ध पायभेद उक्तः - हेत्वादी टः, यद्यपि हेत्वा 35 दिषु विधाने जातित्वाभावेऽपि ङोर्भविष्यत्येवेति जाति
स्वस्वीकारो नावश्यकः, तथापि हेत्वाद्यभावेऽपि जाति
संख्याऽ-ह-दिवा-विभा- निशा प्रभा-भाश्चित्रकर्त्राद्यन्ता - ऽनन्त - कार - बाह्ररुर्धनुर्नान्दीलिपि - लिबि-बलि-भक्ति-क्षेत्र - जङ्घा-क्षपा- 50 क्षणदा - रजनि - दोषा-दिन-दिवसाट्ट्ः
। ५. १. १०२. ॥
त० प्र० -- संख्येत्यर्थ प्रधानमपि तेनैकादिपरिग्रहः । एभ्यः कर्मभ्यः परात् करोतेष्टः प्रत्ययो भवति । अहेत्वाद्यर्थ आरम्भः । संख्यां करोति -- संख्याकरः, 55 एककरः, द्विकरः, त्रिकरः । अहस्कर:, दिवाकरः, दिमाकरः, निशाकरः, प्रमाकरः, भास्करः, चित्रकरः कर्तृकरः, आदिकरः, अन्तकरः, अनन्तकरः कारकर:, बाहुकर:, अरुष्करः, धनुष्करः, नान्दीकर:, लिपिकरः, लिबिकरः, बलिकर:, मक्तिकरः, क्षेत्रकरः, जङ्घाकरः, क्षपा- 60 करः, क्षणदाकरः, रजनिकरः, रजनीकरः, दोवाकरः, दिनकर, दिवसकर: । टकारो ङघर्य:--संख्याकरी
॥१०२॥
श० म० न्यासानुसन्धानम्-- संख्या० । व्याकरणे शब्दस्य स्वरूपमात्रवाचकत्वस्य सिद्धान्तितत्वेन संख्येति 65 शब्दस्यापि स्वरूपमात्रपरत्वं स्यादित्याशङ्कायामाह - संख्येत्यर्थप्रधानमपीति-अपिना स्वरूपपरमपीति भावः । तेनैकादिपरिग्रहः इति--तेन - अर्थप्राधान्यविवक्षणेन संख्यार्थ का एकादयः शब्दा गृह्यन्त इति भावः । अयमाशयः -- संख्याशब्दो व्याकरणशास्त्रसंकेतितोऽपीति 70
I