________________
३२
श्रीसिद्धहेमचन्द्र शब्दानुशासने पामोऽध्यायः ।
।
'दासवोपमो य उत्तरान् कुरून् विजित्य प्राज्यम् अकुप्यं वसु अयच्छत् [ तुम्यमिति शेषः ] स धनञ्जयः, अधुना [ वनवाससमये ] बल्कवासांसि हरन् तव मन्युं कथं न करोति' इत्यन्वयः । द्रौपदीवाक्यमेतत् । अत्रा5 कुप्यपदं सुवर्णरजतरूपवनार्थे प्रयुक्तम् । गोपाथ्यमन्य- | दिति - अत्र स्वरान्तलक्षणो यः पूर्वाकारस्य लोपश्च । आयप्रत्ययस्य वैकल्पिकत्वेन " शकि-तकि०" [ ५.१. २६. इति पवर्गान्तलक्षणे ये गोप्यमित्यपि भवति, दैवादिकस्यापि गोप्यमिति भवति । "भिदृपी विदारणे' 10 भिनत्ति कूलानीति - भिद्यः, अत्र कर्तरि क्यप् कित्त्वाच्च गुणाभाव:, भिद्यो नदः, "उद्झत् उत्सर्गे " उज्झत्युदकम् उद्घघः इति - अत्र कर्तरि क्यप्, उद्धघोनः नदार्थे प्रयुक्तं कालिदासेन रघुवंशे "तोयदागम इवोद्धयमिद्ययोर्नामधेयसदृशं विचेष्टितम्" 15 इति । नदार्थादन्यत्र तृच् भवतीत्याह् - अन्यत्र भेत्ता, उज्झिता । "विधूच् संराद्धौ" "त्विषीं दीप्ती" पुषच् पुष्टी", सिध्यन्ति त्वेषन्ति पुष्यन्ति अस्मिन् कार्यारणीति - सिध्यः, तिष्यः, पुष्यः, इति अत्राधिकरणे क्यप्, इमे नक्षत्रविशेषवाचकाः, नक्षत्रार्था 20 दन्यत्राधिकरणेऽनट् भवतीत्याह---अन्यत्र सेधनः, त्वेषणः, पोषणः इति । "युज् पी योगे" युजन्ति तदिति युग्यं वाहनं गजाश्वादीति---अत्र कर्मणि क्यप्, योग्यमन्यदिति--- वाहनार्थादन्यत्रास्याप्रवृत्या व्यञ्जनान्तलक्षणे घ्यणि "क्तेऽनिटचजो० ' 25 १११. ] इति जस्य गत्वे उपान्त्यगुरणे च योग्यमिति, सामान्यतो योजनयोग्यमित्यर्थः । 'युज्यतेऽनेनेति युग्यं वाहनम्' इति पारायणे करणेऽपि क्यपि साधितम् । "अञ्जौ व्यक्ति-म्रक्षण गतिषु" आञ्जन्त्यनेनेति-आज्यं घृतमिति - अत्र करणे क्यप् । संज्ञाया अन्यत्रा30 नट् भवतीत्याह--आञ्जनमन्यदिति । "सृ गतौ" "त् प्रेरणे" सरति सुवति वा कर्मसु लोकानिति सूर्यो देवता, अत्र कर्तरि किप् । उक्तेषु निपातनेषु क्वचित् कर्मणि कचित् कर्तरि क्वचिदधिकरणे क्वचिच्च करणे विधानस्य दर्शनादस्यानियतकारकादेः कथं सिद्धि 35 रित्याशङ्कायामाह बहुलाधिकाराविति तथा
१.
[ पा० १, सू० ४०.
तदेव प्रयोजनं यदलाक्षणिकमपि कार्यं लभ्येतेति । निपातनेन किं कि लभ्यमिति "वर्योपसर्या ० " [ ५.१. ३२. ] इति सूत्रव्याख्यायां हरिकारिकयोक्तम्, तथा च 40 कारकविशेषलाभो नासम्भवीति । एतच्च पूर्वं वक्तव्यमपि प्रकरणशेषे कथितं सर्वत्रोह्यमिति ।। ५ १.३६. ॥
।
।
दृ-वृग् - स्तु जुषेति- शासः । ५. १. ४०. ॥
त० प्र०— एभ्यः क्यप् भवति । हृ- आहत्यः । वृग्प्रावृत्यः । वृङस्तु वार्या ऋत्विजः । स्तु स्तुत्यः, अवश्य- 45 स्तुत्यः । जुष्- जुष्यः । एतीति इणिकोर्ग्रहणम् । इत्यः, प्रधीत्यः । अपतेरिङश्च न भवति-उपेयम्, अध्येयम् । इकोऽप्यध्येयमित्येके । ईयतेरप्युपेयमिति भवति । शास्शिष्यः, आशासेस्तु "आशास्यमन्यत् पुनरुक्तमूतम्" [ रघुवंशे ] इति । कथम् "अनिवार्यो गर्जरन्यैः स्वभाव इव 50 बेहिनाम् ।" इति संभ केरन्यत्रापि वृङ् ॥ ४० ॥
श० म० न्यासानुसन्धानम् - ह - वृग्० । अनुपसर्गादित्यस्य निवृत्तेरुक्तत्वात् तत्फलबोधनरूपेण सोपसर्गमुदाहरति-ह-आहत्यः इति -- "हृतु आदरे" इति दृधातोराङ्कुर्वादनेन क्यपि तागमे च -- आहत्यः । एवं 55 प्रपूर्वात् "वृग्ट् वरणे" इति वृधातोः क्यपि - प्रावृत्यः । वृगिति सानुबन्धग्रहणस्य फलमाह - बृङस्तु वार्या ऋत्विजः इति तदनुबन्धग्रहणे नातदनुबन्धकस्य ग्रह्णम्* इति न्यायेन ङकारानुबन्धकस्य "वृश् संभक्तो" इति वृधातोर्न ग्रहणमिति तत्र ऋवर्णान्तलक्षणो घ्यखेव 60 भवतीति भावः । स्तु स्तुत्यः इति- "टुंग्क् स्तुतौ” इति स्तुधातोः स्तुत्यः । अवश्यस्तुत्यः इति अत्राव - यमो मकारस्य " कृत्येऽवश्यमो लुक् " ] ३.२.१३८. } इति लुग् भवति । आवश्यकेऽर्थे द्योत्ये "उवर्णादावश्यके" [ ५. १. १६. ] इति घ्यणु प्राप्तस्तथापि परत्वादयमेव 65 प्रवर्तत इति तत्सूत्रव्याख्यायामेवो तत्वाद् ध्यत् न । यद्यप्ययं सर्वत्रार्थं प्रवर्तते स चावश्यकमात्रे, इति तस्य विशेषविहितत्वेन बलवत्वमिति प्रतिभाति, तथापि स सर्वेभ्य उवर्णान्तेभ्यो विधीयतेऽयं च स्तुधातुं विशिष्यादत्ते च इत्यस्यापि विशेषविहितत्वं सममेवेति परत्वेनैव व्यवस्था 70 बालकस्य विविध कार्यकरत्वम्, तस्यागतिकगतित्वा ! समुचितेति । "इं गतौ " अयति "इंण्क् गती" एति, शङ्कयाह - निपातनसामर्थ्याद् वेति — निपातनस्य । “इंक् स्मरणे" अध्येति, "इंक् अध्ययने" अधीते,
|