________________
बृहद्वृत्ति- बृहन्न्यास संवलिते
|
विशिष्य धनीति कथनं व्यर्थमिति प्रश्नाशयः । व्यावर्त्य माह- अवसायः, अवहारः इति, नन्वत्रापि अवपूर्वात् स्यतेर्घञेव, एवमवपूर्वाद्धरतेर्धमेवेति भाव्यमेव घनीति कथितेऽपि दीर्घेणेति चेदत्राहणप्रत्ययोऽयमिति नात्र 5 भावाद्यर्थको घञ्, अपि तु कर्त्रर्थकः " अहसासंस्रो: " [५. १६३ ] इति सूत्रविहितो णप्रत्यय इति घनीति कथनेन भवति दीर्घप्राप्तिस्तदभावे च स्यादेव दीर्घं इति तद्व्यावृत्त्यर्थं घञीति वाच्यमेवेति भावः ॥ बहुलग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वमपी हेत्याह- बहुलवचनादनुपसर्ग | 10 स्यापि अयपीति - सूत्रोपात्तमुपाधिद्वयं घनीति उपसर्गस्येति च, बहुलवचनसामर्थ्याच्चोभयव्यभिचारोऽपि दृश्यते - क्वचिदनुपसर्गस्यापि पूर्वपदस्य दीर्घो भवति घञतोत्तर- । नेति भावः ॥ ३. २. ८६ ।। पदाभावेऽपि तथा च पूर्वपदमात्रस्योत्तरपदमात्रे दीर्घ इति वेत्याह- दक्षिणापथः, उत्तरापथः इति- दक्षिणः पन्थाः15 दक्षिणापथः, उत्तरः पन्थाः - उत्तरापथ इति विग्रहः, कर्म- । धारये सति " ऋग्-पू:-पथ्यवोत्" [ ७. ३. ७६ ] इत्यत्, पाणिनीयाश्च दक्षिणस्यां पन्थाः -- दक्षिणापथः, उत्तरस्यां पन्था:- उत्तरापथ इति विगृह्नन्तीति न पूर्वपदीर्घमाश्र यन्ते । न केवलमुपाधिद्वयव्यभिचार एव तत्र विकल्पोऽपि 20 बहुलवचनेन लभ्यत इत्याह- कचिद् विकल्पः इति - अनुप सर्गस्यापि अपि क्वचिद् विकल्पेन दीर्घौ भवतीत्यर्थः । क्वेत्याह- अन्धतमः अन्धातमः इत्यादि, अत्र रूपद्वयमिदं लेखकप्रमादायातमिति प्रतीयते यतः "समवान्धात् तमसः " [ ७. ३.८० ] इति विधीयमानः समासान्तो ऽत् नित्यमेव विधीयते, केवलं दीर्घविकल्प एवेति 'अन्धतमसम्, अन्धातमसम्' इत्येव रूपद्वयमुचितम्, यदि च समासान्तविधिरनित्यः * इति न्यायाश्रयणेनेदं समासान्तरहितं । णमिति "विशेषणमन्तः " [ ७. ४. ११३ ] इति परिभाषा - 60 रूपयमित्युच्यते, तर्हि सति तादृशशिष्टप्रयोगे वयमपि । सूत्रबलेन तदन्तार्थलाभादाह - नाम्यन्तस्योपसर्गस्येति
!
25
श० म० न्यासानुसन्धानम् नामिनः । उपसर्गस्येति सम्बध्यते पूर्वसूत्रात्, तस्य च नामिनः इति विशेष
९२
30
|
स्वीकुर्मः, न तु क्वापि दृश्यते तादृशः प्रयोगः, वाङमयस्यानन्तत्वात् कथमिदमुच्यत इति वेदस्तु । नैतावदेव अस्त्यन्यदपि प्रकृतबहुलवचनप्राप्तवैशिष्ट्यं तदाह कचिद् विषयभेदेनेति - अनुपसर्गस्याप्यघञ्यपि क्वचिद् विषयभेदेन दीर्घो भवति न वा भवतीत्यपि बहुलवचनादेव लभ्यत इति भावः । क्वेति चेदाह - अधीदन्तः इत्यादि - अत्रिको दत 35 इति विग्रहः, अर्धनिपातस्याधिकार्थत्वात् । एवम् - अधीकर्णः इत्यादावप्यधेनिपातस्याधिकार्थस्यैव दीर्घः । तदाहएते आधिक्ये इति एते प्रयोगा आधिक्यविषय एव कृतदीर्घा भवन्तीति तदर्थः । पूर्वमुक्तस्य क्वचिद् विकल्प
[ पाद-२, सूत्र. ८६-८७ ]
इति पक्षस्य शेषभूतमेवार्थं विषयभेदप्रसङ्गेन प्रत्ययभेदप्रसङ्गस्य स्मृतत्वात् प्रत्ययभेदेनापि क्वचिद् विकल्प इति 40 सूचयति-- काशशब्दे च घमन्ते विकल्पः इति - काशशब्दो द्विधा व्युत्पाद्यते घञाचा च तत्र चत्र-तेऽनेन सूत्रेण वैकल्पिको दीर्घो भवतीत्यपि बहुलवचनलभ्य एवार्थ इति भावः । क्वेत्याह- नीकाशः, निकाशः इति उभयथापि कविप्रयोगदर्शनादत्र वैकल्पिको दीर्घः । एवं--प्रतीकाशः 45 इत्यत्रापि, उभावपि शब्दी सादृश्ये प्रयुज्येते । घञ. ते विकल्प इत्युक्त्या सूचितोऽन्यत्र विशेषः क इत्याकाङक्षायामाह -- अजन्ते तूत्तरो विधिरिति उत्तरसूत्रण नाम्यन्तस्योपसर्गस्थाजन्ते काशशब्दे परे नित्यमेव दीघों भवति, तदन्यस्य
1
50
नामिनः काशे ॥ ३.२.८७ ॥
|
त० प्र०-नाम्यन्तस्योपसर्गस्य "अच्” [५. १.४९] इत्यजन्ते काशशब्दे उत्तरपदे परे दीर्घाों ऽन्तादेशो भवति । निकाशते निकाश्यत इति वा-नीकाशः, विकाशते इति-वीकाशः, अनूकाशः; प्रतीकाशः । बहुलाधिकारान्निकाश 55 इत्यपि । नामिन इति किम् ? प्रकाशते इति
प्रकाशः ॥ ८७ ॥
"अनवर्णा नामी " [ १. १. ६ ] इति संज्ञासूत्रेण अवर्णवजनामोदन्तानां स्वराणां ना मिसंज्ञाविधानेऽपि 'ए ऐ ओ औ वर्णानां स्वत एव दीर्घत्वेन दीर्घविधानानर्थक्यात् लृकारान्तानामेवे होद्देश्यत्वं तत्रापि ऋकारान्त-लृकारा- 65 न्तस्योपसर्गस्याश्रुतत्वात् परिशेषादिकारोकारयोरेव ग्रहणमितीकारोकारान्तस्योपसर्गस्येति पर्यवस्यति सूत्रे 'काशे' इति सामान्यनिर्देशेऽपि लक्ष्यैकचक्षुष्केणाचार्येण लक्ष्यानु
सारमेव व्याख्यातव्यमिति विशिष्य काशशब्दं परिचाययति – “अच्” [ ५. १. ४६ ] इत्यजन्ते काश शब्दे 70 इति यद्यप्यजन्ते इत्येतावदुक्तावपि "अच्" [ ५. १४९]