________________
पाद २, सूत्र - ६८-६९ ] श्री सिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
।
बानुवृत्त्या अत्यन्तस्यैव डाः स्यादिति समाधानं वाक्यम्, यक्षानुरूपो बलिरिति न्यायेनासमञ्जसस्य प्रश्नस्य यथाकथंचिदुत्तरं विधेयमित्याशयेनाह - राजकरः इति- करस्य राजेव सह स्वस्वामिभावसम्बन्धप्रसिद्धेर्वा प्रत्युदाहरणमि5 दम् अत्रापि डाविधाने राजाकर इति स्यादिति तद्वारणाय महत इत्यावश्यकमुत्तरत्रानुवृत्त्यर्थं चेति भावः । करादिष्विति किमिति - सामान्यत उत्तरपदे एव डा विधेय इति भाव:, तरादिनिवृत्तिस्तु * अपेक्षातोऽधिकारः * इति न्यायात् भविष्यतीत्याशयः । महतः पुत्रः इति - अत्र न भवत्यात्व 10 मिति तद्वारणाय करादिग्रहणमावश्यकमिति भावः । अन्त्यस्याकारादेशे समानदीर्घं च महाकर इत्यादिसिद्धौ डित्त्वविधानमा देशस्य व्यर्थमित्याशङ्कायामाह - डकारो ऽन्त्य - स्वरादिलोपार्थः इति डित्यन्त्यस्वरादेः " [२-१.११४.] इति सूत्रेणान्त्यस्वरादेः 'अत्' इत्यस्य लोपविधानार्थ डिव 15 सिंह कृतमिति भावः । तथापि प्रकृते तस्य वैयर्थ्यमेव ।
।
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं, न तु लाक्षणि 35 कस्य इति न्यायेन महच्छन्दमुच्चार्य विधीयमानः " सन्महत्परमोत्तमोत्कृष्टम् ०" ( ३. १. १२८ ) इति समासएव ग्रहीष्यते, यथा " प्रमाणीसंख्याढ्ड: " ( ७. ३. १२८. ) इति सूत्रे संख्याशब्दमुच्चार्य विशिष्य विहितः “सुज्वाऽर्थे संख्या ०" (३.१.१६ ) इति समास एव गृह्यते न तु " एकार्थं चानेकं 40 च ( ३. १. २२ ) इति सामान्यसूत्र विहितः, महच्छन्दमुच्चार्य विहितः समास एव ग्राह्य इतीदृशो नियमोऽग्रिमसूत्रेऽपि न स्वीक्रियत इति च प्रतिपादयिष्यते तत्रैव, तथा चषष्ठीसमासे व्यधिकरणे उत्तरपदेऽपि प्रकृतसूत्रप्रवृत्तिः । पूर्वसूत्रेणैव नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् * इति 45 न्यायसहकारेण स्त्रियामपि डासिद्धिरिति प्रकृतसूत्रस्य वैयर्थ्यमाशङ्कयाह - नित्यार्थमिदमिति, अयमाशयः --- सत्यमे - तत् यत् नामग्रहणं नामविशेषमुच्चार्य कार्यविधी लिङ्गविशिष्टस्य - लिङ्गबोधकप्रत्ययसहितस्यापि ग्रहणं भवतीत्यर्थविनाप्यन्त्यस्वरादिलोपेन समानदीर्घेण रूपसिद्धेश्वत्त्वादत । केन नामग्रहणे लिङ्गविशिष्टस्य । पि ग्रहणम् इति न्यायेन 50 पूर्वसूत्रेणैव महत्याः कर इत्यादिविग्रहेऽपि डाः सिद्ध एवेति, परं तत् सूत्रं विकल्पेन डाविधानं करोति, प्रकृतसूत्रं च नित्यत्वेन डाविधानार्थ पृथगारब्धमिति ।
आह-सवोत्तरार्थः इति प्रकृते ऽन्त्यस्वरादिलोपस्यानावश्यकत्वेऽपि “स्त्रियाम्” इत्युत्तरसूत्रेण महतीशब्दान्तस्य 'आ' विधाने महदाकर इत्यादिरूपं स्यादिति तत्रान्त्यस्वरादिलो20 पेन महाकर इत्यादिरूपाणां सिद्ध्यर्थमादेशस्य डित्त्वमाव
55
।
श्यकमिति लाघवानुरोधेने हैव तादृशो निर्देशः कृत इति भावः, कृते च डित्त्वे प्रकृतेऽपि ययन्त्यस्वरादिलोपः क्रियते तहि सम नदीर्घ विधानं नावश्यकमिति प्रक्रियालाघवमपि विज्ञेयम् ।। ३. २. ६८ ॥
पाणिनीये च तन्त्रे "आत्महतः समानाधिकरण- जातीययोः " [ ६. ३. ४६ ] इति सूत्रे 'महदात्वे घास - कर विशिष्टेषूपसंख्यानं पुंवद्भावश्च' इति वार्त्तिकं पठ्यते, तेन महच्छन्दस्य घास कर विशिष्टेषु आत्वं पुंवद्भावश्च विधीयते, उदाहृतं च महत्या घासो महाघासः, महत्याः करो महाकर इति । एतेन तन्मते स्त्रियामेवात्वमेषूत्तरपदेषु विधीयते इति कैयटादयो मन्यन्ते यतः पुंवद्भावसन्नियोगशिष्टतया विधा- 60 नाद् यत्र पुंवद्भाव आवश्यकस्तत्रैवात्वमपि भवतीति प्रतीयते । तथा च स्त्रियामेवात्वं भवति, तत्र पुंवद्भावविधानस्यैतदेव फलं यत्-अन्त्यस्याकारादेशे सत्यपि महाघास इति रूपं न स्यात् पुंवद्भावे कृते च तकारस्याकारे भवति रूपसिद्धिरिति । केचित् तु वार्तिकस्थं चशब्दमन्वा - 65 चये मन्यमाना महतो घासो महाघास इत्यत्राप्यात्वं वर्णयन्ति, किन्तु वासिकोपात्तशब्दं विहाय लिंगविशिष्टपरिभाषागम्वोदाहरणदानेन पुंवद्भावसन्नियोगेन विधीयमानमात्वं पुंसि न भवतीत्येव कैयटादयो व्याख्युः । दीक्षितादिभिस्तु पुंस्यपि प्रवृत्तिरुक्ता, तत्रापि नित्यमेवात्त्वमुदा- 70 हृतमिति स्वमताद् विशेष: । सूत्रद्वयकरणे लिङ्गविशिष्टन्यायानाश्रयणमपि गुणः ।। ३. २. ६९ ॥
25
30
स्त्रियाम् । ३. २. ६६ ॥
त० प्र०—स्त्रियां वर्तमानस्य महतः कराविषूत्तरपदेषु नित्यं डा अन्तादेशो भवति । महत्याः करः - महाकरः, एवं महाधासः, महाविशिष्टः । नामग्रहणे लिङ्घविशिष्ट स्यापि ग्रहणम् इति पूर्वेणैव सिद्धे नित्यार्थमिदम् ॥६९॥
V
श० म० न्यासानुसन्धानम् - स्त्रियाम् । पूर्वसूत्रं सर्वमनुवर्त्तते तत्रत्यस्य महत इति पदस्य स्त्रियामिति विशेष णम्, तदाह-- स्त्रियां वर्त्तमानस्य महतः इति - स्त्रीप्रत्यय - विशिष्टस्य महच्छब्दस्येत्यर्थः । महत्याः करः इति इहापि पूर्वसूत्रोक्ता वैयधिकरण्येन समासे प्रवृत्ति रेष्टव्या, अन्यथा
७७