________________
श्रीसिद्धहेमचन्द्र शब्दानुशासने तृतीयोऽध्यायः ।
कम्
इति न्यायात् । ननु 'विश' इति विकरणविशिष्ट- 40 स्याङ्गमट न तु केवलस्य धातोरिति धात्वङ्गत्वाभावात् तस्य व्यवधायकत्वं स्यादेवेति चेन्न - "अड् धातोरादिह्यंस्तन्यां चामाङ्गा" [ ४.४ २६ ] इति सूत्रस्य विषयसप्तम्या व्याख्यानात् ह्यस्तन्यादिविषये विकरणात् पूर्वमेवागमे तस्य धातुमात्रावयवत्वाक्षतेः । एवं चैतदर्थं केचिद् वैयाकरणाः 45 'उपसर्गनियमे अव्यवधाने उपसंख्यानम्' इति वातिकं स्वीकुर्वन्ति, तदपि प्रत्युक्तम्, अत एव भाष्यकृदादिभिस्तादृशवात्तिकस्य चर्चाऽपि न कृता, न चैवमस्यादित्यत्र "उद: स्थास्तम्भ: सः” [ १. ३. ४४. ] इति सस्य लुक् स्यात्, अटोऽव्यवधायकत्वेन उदोऽव्यवहितस्य 'स्था' इत्यस्य सस्य 50 लोपस्य दुर्वारत्वादिति वाच्यम्, तत्रोदः परत्वं सकारस्येष्टं न तु स्थाधातोः, उद: परस्य स्थास्तम्भावयवस्य सस्य लुगिति सूत्रार्थस्वीकारात् सकारस्याटा व्यवधाने प्राप्त्यभावात्, अट् हि धातोरवयवो न तु सकारस्येति स्थाधातुं प्रति तस्याव्यवधायकत्वेऽपि सकारं प्रति व्यवधायकत्वा- 55 नपायात् । अन्ये तु निर्दिश्यमानस्यादेशा भवन्ति इति न्यायेनात्र सलुकं वारयन्ति तेषामियं प्रक्रिया- "उद:. स्था-स्तम्भ: स:" [ १. ३.४४ ] इति सूत्रे 'उद:' इत्येषा पञ्चमी' स्थास्तम्भ:' इति च षष्ठी, षष्ठीनिर्देशेन यदुच्यते तत् कार्य निर्दिश्यमानस्य भवति निर्दिश्यमानस्यादेशा 60 भवन्ति इति न्यायस्य तत्रोपस्थिते:, यत्र चायं न्याय उपतिष्ठते तत्र सप्तम्यन्त- पञ्चम्यन्तयोः षष्ठयन्तस्य च व्युत्पत्तिवैचित्र्येणाकाङ्क्षितोपतिष्ठमान निर्दिश्यमानपदार्थेन तस्य चादेशपदार्थेन साक्षादन्वयो भवति, तथा चोद: परस्य स्था-स्तम्भावयवस्य लुगिति सूत्रार्थः सम्पद्यते, निर्दिश्यमा- 65 नत्वं हि षष्ठीप्रकृति शवयत्वम्, 'यदागमा: ०' इति न्यायगृहीतोऽथंश्च न शक्योऽपि तु लाक्षणिक एवेति उदः परत्व स्थाशब्दस्यापीह न संभवति, किमुत सकारस्येति प्रकृते 'उदस्थात्' इत्यत्रादसहितस्य स्थाशब्देनाग्रहणेन दोषोद्भावनं सर्वथाऽयुक्तमेवेति संक्षेपः । "निविशः" इति सूत्रस्य यथा - 70 कथंचिन्तिशब्दात् पराद् विश आत्मनेपदमित्यर्थं वर्णयित्वा 'मधुनि विशन्ति भ्रमरा:' इत्यादावात्मनेपदं कुतो नेत्याशङ्कन्ते, तदा शङ्काया अतितुच्छत्वेऽपि 'तुष्यतु दुर्जन:' इति न्यायेनोत्तरमाह- मधुनि विशन्ति भ्रमरा इत्यादि तु निविशोरसम्बन्धादनर्थकत्वाच्च न भवतीति- अत्र 75 ' इत्यादि तु' इत्येतत्स्थाने ' इत्यादिषु' इति ' इत्यत्र तु' इति वा पाठ उचित, प्रकृतपाठे च ईदृशः प्रयोग एव न भवतीत्यर्थः प्रतीयते स चानुचित एव, तादृशप्रयोगस्यैवेष्टत्वाद् ऽन्यस्य मध्ये सत्त्वान्न व्यवधायकत्वम् * स्वाङ्गमव्यवधाय- | विपरीत [ आत्मनेपदविशिष्ट ] प्रयोगस्यैव वारणीयत्वात् ।
[पा० ३, सू० २३-२४ ]
स्यात् तदा व्यतिगम्यन्ते ग्रामाः, व्यतिहस्यन्ते दस्यवः इत्यत्रागतिहिंसाशब्दार्थहस इति प्रतिषेधः स्यादिति, अयमाशयः - प्रकृतसूत्रं कर्तरीत्यस्याभावे सामान्येन प्रवृत्ती भावकर्मणोरपि परत्वात् क्रियाव्यतिहारे विशिष्य विहित 5 वाचस्यैव सूत्रस्य प्रवृत्तिः स्यात् तत्र च प्रकृतसूत्रीय प्रतिषेधोऽपि प्रसज्येतैवेति व्यतिगम्यन्ते ग्रामाः' इत्यत्र गत्यर्थस्वप्रयुक्तो 'व्यतिहस्यन्ते दस्यवः' इत्यत्र हस्धातुविषयश्च निषेधः स्य दिति न स्यादात्मनेपदमिति तत्राप्यात्मने पदप्रवृत्तये प्रकृतसूत्रे कर्तरीत्यायवश्यकम् कृते च कर्त्तरीति 10 पदे भावकर्मणोः प्रकृतसूत्राऽप्रवृत्ती "तत् साप्यानाप्यात्० [ ३. ३. २१. ] इति पूर्वसूत्रेण निर्बाधमात्मनेपदं भवतीति सर्वसामञ्जस्यम् ।। ३. ३. २३. ॥
"
निविशः ।। ३ ३ २४ ॥
त० प्र०- निपूर्वाद् विश: कर्तत्मनेपदं भवति । 15 निविशते । न्यविशतेत्यदो धात्ववयवत्वान्न व्यवधायकत्वम् । मधुनि विशन्ति भ्रमरा इत्यादि [ इत्यादौ ] तु निविशोरसम्बन्धादनर्थकत्वाश्च न भवति ।। २४
श० म० न्यासानुसन्धानम् - निविशः । नेविशुनिनिशु, तस्मात् इति समस्तं पदम् नीत्यविभक्तिकं षष्ठ्यन्त 20 पदम्, निसम्बन्धिनो 'विश्' धातोरिति तदर्थ, सम्बन्धश्च स्वद्योत्यायं वाचित्वम् समस्तत्वेऽपि तत्सम्बन्धस्वरूपान्तर्भाव एव तथा च तुल्यवित्तिवेद्यतया धातुवाच्यक्रिया विशेषार्थ द्योतकत्वं निपदे लभ्यते, तथाविधरचोपसर्ग एव निरिति न्युपसृष्टविश्धातोः कर्तर्यात्मनेपदमिति फलितोऽर्थ:, तत्फलं 23 चाग्रे वक्ष्यति – मधुनि विशन्ति भ्रमरा इत्यादिना । उदाहरति--- निविशते इति -- निपूर्वाद् विशेर्वत्तमानाप्रथमपुरुषैकवचने रूपम्, तथा च श्रीहर्षेण प्रयुक्तं
"निविशते यदि शूकशिखापदे, सृजति सा कियतीमित्र न व्यथाम् ।" इति, अत्र केचित् 'निविश:' इति पद लुप्तपचम्या 30 निर्दिष्टं वम्यन्तेन समस्तं वेति मत्वा निशब्दादव्यवहित
परादेव विश आत्मनेपदमिति न्यवशितेत्यत्र पूर्व घातुः साधनेन युज्यते पश्चादुपसर्गेणेति मते, त्याद्युत्पत्तिविषयतायामेवाडागम इति सिद्धान्ते च पूर्वमडागमे पश्चात् त्याद्युत्पत्तिकालेऽटा व्यवधानान्निशब्दादव्यवहितपरत्वाभावादात्मने 35 पदं न स्यादिति शङ्कन्ते; तन्मतखण्डनायाह - न्यविशतेत्यटो धात्ववयवत्वास व्यवधायकत्वमिति - * यदागमास्तणीभूतास्तद्ग्रहणेन गृह्यन्ते इति न्यायेन धातोरागमोडट् धात्वङ्गीभूत इति विशुग्रहणेनैव तस्यापि ग्रहणमिति विशो
|
१६१