________________
पयोदनादतर्जिकम्बुकण्ठपेशलध्वनि
चमत्कृताखिलाङ्गराजिराजिगीतगौरवम् । निजोजसा हि सजनार्दनावलेपलोपिनं,
नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥ ४ ॥ सुदर्शनप्रधानपूरुषोत्तमैकबान्धवं,
प्रकल्प्य कल्पनाकृतं सुखं नु भोगराजिजम् । निधानमादधानमात्मशर्मणां यथास्थितं, - नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥ ५॥ क्षमाधरं वरं सुवृद्धिमात्यतां गतं गतं,
ततो दधानमात्मसार्वभौमसम्पदां पदम् । क्षमाभृदुत्तमाङ्गचुम्बिताविपद्मरेणुकं,
नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥ ६ ॥ विभाव्य नामगौ नमौ च वर्गप्रान्तगावपि,
युतौ गुणेन च श्रिया च चक्रिमादिभागगौ। ततोऽमरद्रुकामधेनुकामरत्नतोऽधिकं,
नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥ ७॥ पदत्रयप्रचारगां च गां मुखाङ्गणं गतां,
तथाप्यशेषदेशकाललीनभावगामिनीम् । सुधाप्रवाहवाहिनी वहानमिज्यताभृतं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥ ८ ॥
देवश्लेषगुरुङ्गमष्टकमिदं गीतं शमालिप्रदं,
दक्षाऽभ्यर्थनया प्रणुनमनसा भक्त्यैकलीनात्मना । लावण्येन प्रवर्तकेन रचितं पञ्चादिमैश्चामरैः, श्रोतणां पठतां नृणां च शिवदं स्तात् पुष्पदन्तावधि ॥१॥
[शार्दूलविक्रीडितवृत्तम् ]