________________
[ पा० ४. सू० १०.]
|
|
डोडवा वा०" [ ५. १. ७६.] इति डः । पुरि वर्तते इति - 'पुरि ' इति शब्दप्रधानो निर्देशः, यदा अन्तरशब्दस्य पुव्यञ्जनान्तो वाच्यो भवति तदा सर्वादित्वस्य निषेधः, यदा अकारान्त ईकारान्तो वा पुरं पुरी दङ्गादयश्च वाच्या भवन्ति तदा सर्वादित्वमस्त्येव । 5 द्वाभ्यामिति - "सर्वादेः सर्वाः” [ २. २. ११९. | इत्यत्र मत याभिप्रायेण प्रथमा द्वितीयावर्जनात् तृतीयां प्रारभ्यात्रोदाहरणानि दर्शितानि । स्वमते 'द्वौ हेतू' इत्यादि भवत्येव । सर्वविभक्तत्यादय इति- आदिशब्दाद् यथायोग मेकशेष- पूर्वनिपात पुंवद्भाव उद्रि-आत्आयनिज् मयट्-अकः प्रयोजनानि शायन्त इति । अत्र सर्वमादीयते 10 गृह्यतेऽभिधेयत्वेन येनेत्यन्वर्थाश्रयणात् सर्वेषां यानि नामानि तानि सर्वादीनि, संज्ञोपसर्जने च विशेषेऽवतिष्ठेते, तथा हि-यदा सर्वशब्दः संशात्वेन नियुज्यते तदा प्रसिद्धप्रवृत्तिनिमित्तपरित्यागात् स्वरूपमात्रोपकारी प्रवर्तत इति विशेष एवावतिष्ठते, उपसर्जनमपि जहत् स्वार्धमजहद वाऽतिक्रान्तार्थविशेषणता मापन्नम् 'अतिसर्वाय' इत्यादा16 वतिकान्तार्थवृत्ति भवति, एवं बहुव्रीहावपि प्रियसर्वाय द्वन्यायेत्यादावन्यपदार्थसंक्रमाद् विशेषावृत्ति, वाक्ये त्वसंश्लिष्टार्थत्वात् स्वार्थमात्रं प्रतिपादयतो न विशेषेऽवस्थानमिति स्यात् सर्वादित्वम् । “उभत् पूरणे” अतो “नाम्युपान्त्य ०" [ ५.१.५४.] इति के उभ, तत्पूर्वाद् याते: “आतो डोऽह्वा वामः " [ ५.१.७६.] 20 इति डे निपातनाद दिवे उभयद । उतरेति प्रत्ययानुकरणम् । त्व "नित्वरिष् संभ्रमे" अतः "क्वचित्" [ ५.१.१७१.] इति डे, स्वत् - अस्यैव धातो: “संश्चद् वेहत- साक्षादादयः " [ उणा० ८८२. ] इति निपातनाद ॥ ७ ॥
25
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः ।
30
ङेः स्मिन् । १ । ४॥ ८ ॥
त० प्र०—सर्वादेरकारान्तस्य संबन्धिनः सप्तम्येकवचनस्य ङे: स्थाने स्मिनित्ययमादेशो भवति । सर्वस्मिन् विश्वस्मिन् । अत इत्येव ? भवति । सर्वादेरित्येव ? सर्वो| नाम कश्चित्, सर्वे; समे देशे धावति । तत्सम्बन्धिविज्ञानादिह न भवति प्रिय सर्वे, अतिविश्वे ॥ ८ ॥
|
श० न्या० - डेरित्यादि । ङेरिति स्थानसम्बन्धे षष्ठी । सम्बन्धिन इति - सर्वादेः शब्दस्वरूपस्य यः सम्बन्धी विस्त स्येत्यर्थः, तत्सम्बन्धित्वं च तदर्थंगत संख्याद्यभिधानादर्थद्वारकं द्रष्टव्यम् । सर्वस्मिन् विश्वस्मिन्निति - सर्व विश्वशब्दाभ्यां ङेः स्मिन्नादेशः । सर्वादेरित्येवेति- 'असंज्ञायाम्' इति विशेष36 णात्, अर्थविशेषे च सर्वादित्वात् संज्ञायामर्थविशेषाभावे च न सर्वादित्वमित्यर्थः । समे देश इति अविषमेऽनिम्नोन्नत इति यावत् । “तदस्यास्त्यस्मिन्०” [ ७.२.१.] इति ज्ञापकाद् ङेरिति सप्तम्येकवचनस्य परिग्रहः, तथैवात्र वाक्यार्थस्य घट
|
नात् ॥ ८ ॥
३१ शब्दानु •
२४१
न्या० स० - डेरित्यादि - [ इह व्याख्या न दृश्यते ] ॥८॥ 40
जस इ: । १ । ४।९ ॥
त० प्र० -- सर्वादेरकारान्तस्य सम्बन्धिनो जसः स्थाने इकार आदेशो भवति, एकवर्णोऽपि “प्रत्ययस्य " [ ७.४. ४०८. ] इति सर्वस्य भवति । सर्वे, विश्वे, उभये, ते । अत इत्येव ? भवन्तः सर्वाः । तत्सम्बन्धिविज्ञानादिद्द न 46 भवति प्रिय सर्वाः पुमांसः । 'सर्वाणि कुलानि' इत्यत्र तु परस्वान्नपुंसके शिदेव ॥ ९॥
श० न्या०-- जस इत्यादि । सर्वशब्दात् प्रथमाबहुवचने जस इकारादेशे "अवर्णस्य ० " [१.२ ६. ] इति एत्वे सर्वे, विशिष्टस्यापि प्रहणाद् * जसः स्थाने इकारादेशः कस्मान्न एवमन्यत्रापि । अथ नपुंसके सर्वशब्दाद् *नामग्रहणे लिङ्ग - 50 भवति ? उच्यते-परत्वाच्छिरेवास्य बाधक इत्याह- सर्वाजीत्यादि ॥ ९ ॥
न्या० स० - जस इत्यादि - [ इद्द व्याख्या न दृश्यते } ॥९॥ नेमाऽर्ध-प्रथम- चरम-तया-या ऽल्पकतिपयस्य वा १ । ४ । १० ।।
त० प्र० - नेमादीनि नामानि तयाऽयौ प्रत्ययौ, तेषामकारान्तानां सम्बन्धिनो जसः स्थाने हर्वा भवति, नमस्य प्राप्ते, इतरेषामप्रासे विभाषा । नेमे, नेमाः अर्षे, अर्धा: प्रथमे, प्रथमाः; चरमे, चरमाः; द्वितये, द्वितया:; 80 त्रितये, त्रितयाः द्वये, द्वयाः त्रये, त्रयाः; उभयट्शब्दस्य स्वयदप्रत्यय रहितस्याखण्डस्य सर्वाद पाठात् पूर्वेण नित्यमेवेत्वं भवति - उभये; अल्पे, अल्पाः कतिपये, कतिपयाः; तरसम्बन्धिविज्ञानापरमनेमे, परमनेमा इत्यादि । दिह न भवति - प्रियनेमाः, अतिनेमाः । स्वार्थिकप्रत्य - 65 यान्ताग्रहणादिह न भवति - अर्धकाः । सर्वादेरित्येव ? नेमा नाम केचित् । व्यवस्थितविभाषाविज्ञानाद् अर्धादीनामपि संज्ञायां न भवति-अर्धा नाम केचित् । अत इत्येव ? नेमाः स्त्रियः ॥ १० ॥
55
श० न्या० - नेमार्धेत्यादि - अत्र समाहारद्वन्द्वात् षष्ठी 170 नेमस्येति - सर्वादित्वात् पूर्वेण प्राप्ते इति शेषः । व्याख्यानात् तयाऽयौ प्रत्ययौ तयोश्च केवलयोरसम्भवात् तदन्तस्य कार्य दर्शयति--द्वितये इत्यादि - द्वि-त्रिशब्दाभ्याम् “अवयवात् तयट्” [ ७. १. १५१.] इति तयदि “ द्वित्रिभ्यां०" [ ७. १. १५२. ] इत्ययदि जस्सोऽनेन विकल्पेन इकारादेशः । उभ- 75