________________
[पा० १. सू० ३९.]
डत्यतु सङ्ख्यावत् । १ । १ । ३९ ।। त० प्र०—इतिप्रत्ययान्तमतुप्रत्ययान्तं च नाम सङ्ख्यावद् भवति, एक-व्यादिका लोकप्रसिद्धा सङ्ख्या, तत्कार्य भजत इत्यर्थः । कतिभिः क्रीतः - कतिकः, “सङ्ख्या- डतेश्वा 5 शत्तिष्टेः कः " [ ६.४. १३०. ] इति कः । कतिभिः प्रकारैः कतिधा, “सङ्ख्याया धा” [ ७.२.१०४. ] इति धा । कति वारा अस्य-कतिकृत्वः, “वारे कृत्यस्" [७. २. १०९. ] इति कृत्वस् । एवम्-यतिकः, यतिधा, यति कृत्वः ततिकः, ततिधा, ततिकृत्वः । भतु यावत्कः 10 यावद्धा, यावत्कृत्वः; तावत्कः, तावद्धा, सावत्कृत्वः; कियरकः, किया, कियत्कृत्वः ॥ ३९ ॥
अथ शब्द महार्णवन्यासानुसन्धानम्
अहँ श्रीमतपोगच्छाधिपति श्री विजयने मिसूरीश्वर पट्टालङ्कार-श्रीविजयलावण्यसूरिनिर्मितं त्रुटितशब्द महार्णवन्यासानुसन्धानम्प्रणम्य श्रीवीरं त्रिभुवननतं सार्ववचनं
जयन्तं रागादीनधिगतसमस्तार्थनिकरम् । तथा जैनीं वाणीं निजगुरुवरं नेमिमतुलं
15
20
25
EO
35
श्री सिद्ध हेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः ।
क्षमापालालीभिर्महितचरणं सूरिश्वरम् ॥ १ ॥ श्री हेमचन्द्रप्रभुना प्रणीतं
न्यास निरीक्ष्य त्रुटितं महार्थम् । त्रुटिस्थले सन्धिमितः परस्तालावण्यसूरिविंदधाति किञ्चित् ॥ २ ॥ क्व हेमचन्द्रप्रभुवाग्विलासः ?
क मादृशो मन्दधियः प्रयासः ! | विदन्तु विज्ञा गुरवस्तथाऽपि
यैः प्रेरितः कार्यमिदं करोमि ॥ ३ ॥ यद्वा न चास्तीह प्रगल्भता में
कुविन्दबालस्य यथैव वाने । आदाय तत्सूत्रविशेषलेश
स्तदीयशिल्पेन वितन्वतोऽमुम् ॥ ४ ॥ किं चन्द्रगुप्ताभिधराजमात्रा
न पूरितो दोहद इन्दुपाने ? ।
आसाद्य चाणक्यप्रसादमत्र
wwww
तथाऽनुगृह्णातु गुरुप्रसादः ॥ ५ ॥ ९ शब्दानु●
६५
श० न्यासानु० - डत्यत्वित्यादि । डत्यतु इति- इतिव अतुश्चेत्यनयोः समाहार इति द्वन्द्वे डत्यतु, यद्वा-डति अतु इति व्यस्तमेव, सौत्रत्वादुत्पन्नाया विभक्तेर्लुकि सन्धौ च तु । इमौ प्रत्ययौ प्रत्ययस्य च प्रकृतिमात्रित्यैवात्मलाभात् प्रकृत्यवि - 40 नाभावित्वम्, तथा च प्रकृत्यविनाभाविना प्रत्ययेन प्रकृतिराक्षिप्यते, ततश्च “प्रत्ययः प्रकृत्यादेः " [ ७. ४. ११५.] इति तदन्तविधौ “अधातु०” [ १. १. २७ ] इति नामत्वादाह-इतिप्रत्ययान्तमतुप्रत्ययान्तं च नामेति । उतौ डकारो - ऽनुबन्धः, स च खलतिप्रभृतीनामौणादिकाऽतिप्रत्ययान्तानाम- 45 तिप्रसङ्गनिरासार्थः, अभ्युपेयते हि व्युत्पत्तिपक्षोऽप्युणादीनाम् । 'अतु' इत्यत्रोकारानुबन्धस्तु स्पष्टमिष्टप्रतिपत्त्यर्थः, तदनुबन्धविरहे शत्रन्तादावतिप्रसङ्गस्तु नोद्भावनीयः, उतिना साहचर्य्यात् तद्धितस्यैवाऽतो ग्रहगात् । तथा चानुबन्धमुक्तस्य 'अत्' इत्यस्य निर्देशे तकारे उच्चारणार्थकत्वमपि सम्भाव्येत, सम्भाव्येत च 50 अप्रत्ययान्तं नाम सङ्ख्यावद् भवतीत्यर्थः, स चाव्याप्यतिव्याप्ती सृजेदिति तमावर्ते मा स्म कोऽपि परिपतदिति युक्तस्तदनुबन्धः । यद्वा-अनुबन्धविरहे तकारस्योच्चारणार्थत्वाभावे पि अव्याप्तिः पदं मा निधात् परं पञ्च परिमाणं यस्य स पञ्चत् वर्गः, एवं दशत् वर्ग इत्यादौ तद्धिताऽत्प्रत्ययान्तेऽतिव्याप्तिः कथङ्कारमवरु- 65 येतेति सफल एवोकारानुबन्ध निर्देशोऽपि ।
"
सङ्ख्यावदिति - संपूर्वात् ख्यातेः " उपसर्गादातः " [५. ३. ११०. ] इत्यङि सङ्ख्येति सङ्ख्या इवेति सङ्ख्यावत्, " स्यः देरिवे” [ ७, १.५२ ] इति वति “वत्तस्याम्" [ १.. १. ३४.] इत्यव्ययत्वे “अव्ययस्य” [ ३.२.२७.] इति 60 विभक्तिलुप् । यत्रान्यत् क्रियावाचि पदं न श्रूयते तत्राऽस्तिभवन्तीपरः प्रयुज्यते इति वचनात् क्रियापदमध्याहरतिभवतीति । सङ्ख्याशब्दो 'भावे कर्तृभिन्नकारके च व्युत्पादितः, तस्य च रूढिसंचलितयोगशक्त्या विचारणाद्यनेकार्थकत्वमस्तीति कीदृशार्थकस्यात्र ग्रहणमित्याकाङ्गायामाह -- एकद्वया- 65 दिका लोकप्रसिद्धा सङ्ख्येति - एक-द्वयादिकेति बहुव्रीहिसमासः, सङ्ख्या च अन्यपदार्थः, सङ्ख्याशब्दोऽत्र एकत्व - द्वित्वादिरूपसङ्ख्यापरः, लक्षणया सख्ख्यावाचकपरो वा । “सङ्ख्या त्वेकादिका भवेत्” [ अभिधानचिन्ता० का० ३, श्लो०५३६.] इत्यादावनेकन भगवता हेमचन्द्राचार्येण, "सङ्ख्याः सङ्ख्येये 70 ह्यादश त्रिषु" [ अमरको० द्वि० का० वै० वर्गे श्लो० ८३.] इत्यत्र अमरसिंहेन, "आऽष्टादशभ्य एकायाः सङ्ख्याः सङ्ख्येयगोचराः” इति वाचस्पतिना, “आ दशभ्यः सङ्ख्या सख्येये वर्तते” इति महाभाष्यकृता पतञ्जलिना च सङ्ख्यावाचकार्थे विनैव लक्षणां सङ्ख्याशब्दस्य प्रयोगकरणात् प्रकृतेऽपि विनैव लक्षणां 75
wwwwwww.