________________
४६
बृहद्वृत्ति - बृहन्यास - लघुम्यास संवलिते
[पा० १. सू० ३०.]
|
तुल्ययोः । “वन भक्तो" अतः "गृ-पू-दुर्वि-धुर्विभ्यः किपू” 40 उगा० १४३. ] इति बहुवचनात् किपि बाहुलकाद् दीर्घत्वाभावे सन् परित्राणे । प्रपूर्वाच्छमेः पूर्ववत् क्विपि उपान्त्यदीर्घत्वे गणपाठान्मकारस्य नकारे प्रशान् चिरन्तने । “न भक्तौ” अतः “संश्च द्वे हत्साक्षादादयः " [ उणा० ८८२. ] इति कति प्रत्यये निपातनात् प्रत्ययाऽकारस्याऽऽकारे सनात् हिंसा- 45 याम् । अस्यैव कति सनत्, “समिण-निषिभ्यामाः” [ उणा० ५९८.] इति बाहुलकादाप्रत्यये सना [च] नित्ये । न आनयति तादात्म्यमिति डित्याप्रत्यये नखादित्वाद् नाना पृथग्भावे । विनयति निषेधति विधिमिति डित्याप्रत्यये विना योगप्रतिषेधे । “क्षमोषि सहने” अतः "सनि क्षमि-दुषेः " [ उणा० ६०४ . ] 50 इत्याप्रत्यये क्षमा सहने । “शुभि दीप्ती” अतः “शुभेः सच वा” [ उणा० ७४३. ] इति डित्युकारे शु पूजायाम् । सहपूर्वात् साहे: “डित्” [ उणा० ६०५. ] इति डित्याकारे सहसा अतर्किते । युगपूर्वात् पदेर्बाहुलकादौयादिके विपि युगपत् क्रियासमभिहारे सहार्थे च । उपपूर्वाद् " अशौटि 55 व्याप्तौ ” अतः “अशेरान्नोऽन्तश्च” [ उणा० ७१९.] इत्युप्रत्यये नागमे च उपांशु शनकैर्वचने । पुरपूर्वात् तस्यतेः क्विपि पुरतस्, "पृश् पालन- पूरणयोः” अतः “मिथि-रज्युषि-तृपू-शु-भू-वष्टिभ्यः कित्” [ उणा० ९७१.] इत्यसि “ओठ्यादुर्” [ ४.४. ११७.] इत्युरि पुरस् एतावप्रतोऽर्थे । पुणातेः 60 “संवहत्साक्षादादयः " [ उणा० ८८२. ] इति कति प्रत्यये पुरस्ताद् निपात्यते, प्रथमे पुरोऽर्थे च । “शश प्लुतिगतौ” अतः “संश्वद्वेहत्साक्षादादयः” इति कति प्रत्यये वागमे च शश्वत् निले पुनः पुनरर्थे च यथा- 'शश्वद् वक्ति कुशिक्षितः ' इति । कुपूर्वाद् विदेः विपि कुविद् योगप्रशंसा ऽस्तिभावेषु । 65 " अव रक्षणादिषु" अतः "अवेर्णित [ उणा० ९९५ ] इति इसि " णिति” [ ४. ३. ५०. ] इति वृद्धौ च आविस् प्राकाश्ये । प्रपूर्वाद् "अदं प्सांक् भक्षणे” अतः “रुवर्तिο" [ उणा० ९९७ ] इत्युसि प्रादुस् प्राकाश्ये नानयपि, यथाहरेर्देश प्रादुर्भावाः, दश नामानीत्यर्थः । इतिशब्द एवंप्रकारे, 70 एवंप्रकाराः स्वरादयः, न स्वेतावन्त एवेत्यर्थः । ननु किमत्र निबन्धनम् ? विशेषस्यानिर्देशात् इतिशब्दस्य च परिसमाप्तावपि वर्त्तमानत्वादेतावन्त एवेत्यर्थो य इति [०र्थः] कुतो न लभ्यते ? इत्याह-बहुवचनमिति । [आकृतिगणार्थमिति ] आक्रियतेऽनयेत्याकृति व काप्रकारस्तस्या गणस्तदर्थमिति, अयमर्थः - 75 स्वरादिशब्दस्य संज्ञितया संज्ञाविशेषणत्वात् संज्ञाया चैकवचनान्तलाघवार्थं चैकवचने प्राप्ते यदु बहुवचनं तद् अन्येऽपि बहवः खरादयः सन्तीति ज्ञापनार्थम् एतेनान्येऽपि खरादिसधर्माणः संगृहीता भवन्ति । उक्तं च
प्रपूर्वाद् |
त्रयोऽप्यतिशयार्थे । “ऋक् गतौ” "त्रृग्द् वरणे” “पॄ पालनपूरणयोः" एभ्यः पूर्ववदमि गुणे च अरम् शीघ्रे, वरम् मनागिष्टे, परम् केवले । “चिंग्ट् चयने” अस्माद् " ऋज्यजितश्चि०” [ उणा॰ ३८८.] किति रे अत एव निर्देशाद् मागमे 5 चिरम् दीर्घकाले । आङ्पूर्वाद् “रांक् आदाने" अतः “संश्चदुवेहत्साक्षादादयः” [ उणा० ८८२. ] इति निपातनात् कति आलोपाभावे आरात् दूर- समीपयोः । " तू लवन-तरणयोः” अतः “मिथि-रञ्जयुषि-तू-पृ० " [ उणा० ९७१. ] इति किस प्रत्यये "तीर" [ ४.४, ११६. ] इति इरा - 10 देशे च तिरस् अन्तद्धर्थवज्ञा- तिर्यग्भावेषु । मन्यतेः “अस्” [ उणा० ९५२.] इत्यसि मनस् नियमे । " णमं प्रहृत्वे " पूर्ववदसि नमस् नतौ । भवतेः "मिथि -रज्युषि० " [ उणा० ९७१.] कित्यसि बाहुलकाद् यागमे च भूयस् पुनरर्थे । अपूर्वाद् “इं०क् गतौ” अतोऽसि प्रायस् बाहुल्ये । 15 " वहीं प्रापणे" अतः "मि-वहि- चरि चटिभ्यो वा " [ उणा ७२६. ] इति णित्युकारे उपान्त्यवृद्धी प्रबाहु ऊर्द्धार्थे । प्रवाहुशब्दस्यैव गणपाठात् कान्तत्वं प्रबाहुक् अध्वय । प्रबाहु - पूर्वात् कमेः “गमि-जमि-क्षमि-कमि-शमि-समिभ्यो डित्” [ उणा० ९३७.] इत्यमि डित्यन्त्यखरादिलोपे प्रबाहुकम् [प्रीतिबन्धे] । 20 “ऋक् गतौ” इत्यस्य “शिक्यास्याढ्य ० " [ उणा० ९६४.] इति निपातनाद् ये वृद्धौ च आर्य प्रीतिसंबोधने । “हल विलेखने" अतो बाहुलकात् "सोरेतेरम्" [ उणा० ९३४ ] इत्यमि हलम् प्रतिषेध-विषादयोः, समस्तमित्येके । [सुपूर्वात् “इंण्क गतौ” इत्यतः] “सोरेतेरम्” [ उणा० ९३४ . ] इत्यमि स्वयम् 25 आत्मनोऽर्थे । “अली भूषणादौ” बाहुलकादमि अलम् भूषणपर्याप्त-वारणेषु । “कैं शब्दे” अतः “पृ-का-हृषि-धृषि० " [ उणा० ७२९.] इति कत्युकारे कु पापार्थे । बलं वातीति "संश्चद्वेह - त्साक्षादादयः” [ उणा० ८८२] इति निपातनात् कति प्रत्यये “इडेत्पुसि चातो लुक्” [ ४.३.९४.] इति आलुकि बलवत् 30 निर्भरे । अतिपूर्वाद् वातेः " अ:" [ उणा० २.] इत्यप्रत्यये बाहुलकाद् दीर्घत्वे आकारलोपे च अतीव अतिशये । सु-दुर्भ्यां तिष्ठतेः “दुःखपवनिभ्यः स्थः " [ उणा० ७३२. ] इति क्रित्युप्रत्यये सुष्ठु, दुष्ठु प्रशंसा - निन्दयोः । " ऋक् गतौ” अतः "शी-री-भू-दू-मू-घृ-पा-धाग्-चित्यर्त्यजि-पुसि मुसि-बुसि-विसि95 रमि-धुर्वि-पूर्विभ्यः कित्” [ उणा० २०१. ] इति तप्रत्यये
बाहुलकादेवे ऋते वियोगे । संपूर्वात् "पदिंच गतौ” अतः "पदि पठि०” [ उणा० ६०७.] इति इप्रत्यये गणपाठात् समो लोपे सपदि इते । समीक्ष्यते इति “संवहत्साक्षादादयः " [ उणा ८८२. ] इति कति साक्षादेशे साक्षात् प्रत्यक्ष
|