________________
अध्याय
श्री अर्हद्गीता सरस्वती सदा भूया-दाहती शाश्वती श्रिये ॥ पूर्णाप्रभातसञ्जात-प्रभेवेन्दुविवस्वतोः ॥ १ ॥ यस्यां नैकान्त जडता।नोष्मता न तमोलवः॥निर्दोषां सुप्रकाशाङ्गीं-स्तुमस्तामाईती गिरम् ॥ २॥ मेघगम्भीरघोषत्वा-यदीयाऽव्यक्तवर्णता ॥ गीतारंभ इवाऽन्वर्थ-दर्शने स्पष्टवर्णता ॥ ३ ॥ साध्यक्षा श्रुतदेवीवा-ऽनुयोगाङ्ग चतुर्भुजा ॥ आत्मानुशासनाद् ब्राह्मी । संविदे हंसगामिनी ॥ ४ ॥ बृहत्त्वाद् ब्रह्म सद्ज्ञानं । तद् ब्रह्माऽर्हति केवलम् ॥परेब्रह्मणि निर्माय । शिवे सिद्धे स्वरूपतः॥ ५ ॥ ब्रह्मास्मिन्निति जीवोपि । ब्रह्मात्मैव तदाश्रयात् ॥ वन्हेराश्रयतोङ्गारो । वन्हि मण्डलमंशुमान् ॥ ६ ॥ ब्रह्मणाज्ञायमानोर्थः । सर्वो ब्रह्माऽभिधीयते ॥ तत्तद्विषयिणः शुद्धे-विषयेऽध्यवसायतः ॥ ७ ॥ सुधेयमिति चिन्तायां । गोचरः सलिलं सुधा॥राजवाग विषयोऽप्यर्थो । राजवागीयमच्यते ॥८॥ वस्तुयत्कर्मविषय-स्तत्कर्मार्चादिकंस्फुटम् ॥ व्यापारविषये भावे। व्यापारोयमितिस्थितिः ॥ ९ ॥ ब्रह्मणो विषयादेवं यत्सत्तब्रह्म निश्चितम् ॥ जीवोपि ब्रह्मशुद्धस्य । तस्य ब्रह्मपदं शिवम् ॥१०॥