________________
अध्याय
श्री गौतमउवाच ऐक्यं न दृस्यते धर्मे । नाना शास्त्रीयवार्तया ॥ श्रीवर्द्धमानतन्मे त्वं । धर्मतत्वं निवेदय ॥ १ ॥
* श्री भगवानुवाच वृत्ते ज्ञाने दर्शने वा । सर्वस्मिन्नक्षरत्रये ॥ यस्यगौरवमेवास्ति । श्रिये स मगणोर्हताम् ॥ २ ॥ यःसुदेव्यास्तनुजन्मा । गणोऽस्य यगणस्मृतः॥ तद्वर्णमुख्येपिलघौ । युक्ताग्रे गुरुता द्विधा ॥ ३ ॥ यः सदा रगणे लग्नो । नग्नोऽस्य गौरवे क्षितौ ॥ नचित्रमादीवन्तेपि । अन्तर्लघुतयाङ्गिनः॥ ४ ॥ सहिताः सगणोबणे । स्त्रिभिर्वन्द्योऽन्तगौरवात् ॥ तीर्थेशभावात्तगणं । भजतेऽनुक्रमेण यः॥ ५ ॥ अन्तर्गुरुधियंपुष्यन् । पार्श्वेलघुतयोपधेः ॥ रगणं च द्विषन्नीत्या । जगणोजगदर्यमा ॥ ६ ॥ भगवान्भगणः श्रेयान्।साक्षाद्गुरुमुखो हि सः॥ कीर्तिश्चन्द्रमसाकान्ते-र्धाताभावत एव यः ॥ ७ ॥ शिवानयनकृद् यस्य । स्थिति वितनन्दिनी ॥नगणः ससदानम्यो । गुणनगणनान्वितैः॥ ८॥ मन्दारःस्वेष्टदानेषु । यैकारोऽर्हन्युगादिजः ॥ राजराप्रथमोयोगी । सहितःप्रभयारवेः ॥ ९ ॥ तस्मात्तीर्थेश एवान्ये । जयंतइहजज्ञिरे ॥ सर्वेभावत एतेषां । गणनागणवर्णवत् ॥१०॥