________________
अध्याय
चातुर्वण्यं नृणामिष्टं । पायेवर्ण चतुष्टये ॥ ज्योतिष्काणां तथाताये। चातुर्विध्यं व्यवस्थितम् ॥ ११ ॥ वर्गीयपंचमाःपंचः । पुर्वेऽहंतःप्रकीर्तिताः ॥ पंचखेवजलेरुक्त-स्तद्वासपारमेश्वरः ॥१२॥ काद्याढांताःस्मृताःस्वर्गा । द्वादशत्रिदशान्विताः ॥ ऊकाराद्याविसर्गाताः । नवप्रैवेयकान्यपि ॥ १३ ॥ नऋवर्णोद्लुवर्णस्य । भेदभावोऽप्रयोजनात् ॥ अकाराद्याउकारांताः । पंचाप्यनुत्तरालयाः ॥१४॥ सर्वार्थसिद्धिःप्रथमो-ऽपरोऽपराजितस्ततः ॥ इस्वरेविजयोदीर्धे । विजयान्तोजयन्तके ॥१५॥ ॐकारकेवलज्ञानं । सिद्धःप्रागेवदर्शितः॥अस्त्यागसिद्धश्चारित्रात् । अंसिद्धोभक्तिशीलनात् ॥१६॥ योगेऽनयो:स्यादोंकारः। परोऽस्याऽर्थस्यदर्शनात॥नरांगरूपं यस्त्यागो। विसर्ग:सिद्धताऽनयोः॥१७॥ विसर्गप्रकृतेरेफ-स्याऽग्नेः केवलसेवनात् ॥ सिद्धः केवलभक्त्यावा । तो पुनर्भवभाजनम् ॥ १८॥ नमः शब्देनविनयो । भक्तिर्वाविनयोव्रतम् ॥ विशिष्टोवा नयः शास्त्रं । ज्ञानसिद्धस्त्रयादतः ॥ १९॥ नकारेष्टावतश्चैको । मे नंदा९षडविसर्गके ॥ चतुर्विंशतिरेखास्या-नष्टजातकचक्रजाः ॥ २०॥ लोकभावनयाचैवं । लोकालोकावलोकनात् ॥ लोकोभवत्यकारस्या-हतः सारूप्यभाग्भुवि ॥२१॥ ॥ इतिश्रीअर्हद्गीतायांकर्मकाण्डेपंचत्रिंशत्तमोऽध्यायः॥ ३५ ॥