________________
अध्याय
लोके नयनतुल्यास्ते । गुरुतां प्राप्य लाघवात् ॥ शिवखरूपमापन्ना-च्छदोमार्गानुरोधिनः ॥ ११ ॥ भवानुरागोक्रमतो गौरवं लाघवं भजन ॥ सर्वांग लाघवाद्धत्ते । ऽकारोऽर्हन्नार्जवं हि सः ॥१२॥ आकृतौ विकृतिर्नास्य । शिवोयमूर्द्धगामुकः ॥ प्रस्ताराद्विरतच्छन्दो । विश्रामायैवकेवलः ॥१३॥ यस्थाकृतिर्लिपिन्यासे । बक्राविकृतिभाग्गुरोः ॥ तस्याकारस्यबाच्योंगी। युक्तःप्रस्तारवानयम् ॥ १४ ॥ विश्राम्यति यथा छन्दो । रूपेभ्यः केवलोऽव्ययः ॥ अकारोलाघवादेवं-मात्रया र्यागणेष्वपि ॥१५॥ सर्वादिमोक्तानुसृते-र्येषांपंक्तिधृतिर्वरा ॥ वर्णानांविदुषां तेषां । प्रतिष्टावहतीनुवा ॥१६॥ येमीमांसाहतालोके । येषांमन्युक्रिया प्रिया ॥ नेश्वरस्तैस्ससर्वज्ञाः । प्राप्यते समये क्वचित् ॥ १७॥ नित्यं रतियेतिस्थाने । मतिर्दण्डकनिश्चये ॥ गतिःशनैःपदन्यासे । दिव्याकृतिषु संस्कृतिः ॥१८॥ पदं श्रुतिकटुत्याज्यं ।दुष्टं बाक्यमसक्रियम् ॥ यतः स्याद्गाम्यधर्मस्यो-दीपनं धियते न तत् ॥ १९॥ च्छंदोविशारदैरेव-मादर्शि शिवशर्मणे ॥ धर्मस्तस्मान्नित्यसुखं । श्रीमेघविजयोदयः ॥२०॥ आयंसर्वगुरुस्वरूपमुचितं जीवप्रकृत्यात्मकं ॥ प्रांतेसर्वलघुक्रियंपरिणतं-सिद्धं सुबुद्धं शिवम् ॥ च्छंदःशास्त्रगणेऽखिलेवरकुलेजात्याविशिष्टेप्यहो॥मन्येऽकारनिदर्शनं गुरुलघुस्थित्याहतोबाचकम् ॥ २१ ॥ ॥ इतिश्रीअर्हद्गीतायांकर्मकाण्डेषटत्रिंशत्तमोऽध्यायः ॥३६॥
৩৩