SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अध्याय श्री गौतमउवाच ऐन्द्रीशक्तिरिवाचिन्त्य-प्रभावामातृकाह्यसौ ॥ यस्यां विश्वप्रकाशात्मा । परमेष्टीप्रतिष्टितः ॥ १ ॥ पूर्वलेखाद्वयंकिञ्चि-दव्यक्तमक्षरं ततः ॥ विन्दुलेखेमातृकायां । कथं कथय नाथ मे ॥ २ ॥ श्री भगवानुवाच अव्यक्तपुर्वव्यक्तस्या-द्रन्थसन्दर्भवत् खलु ॥ व्याप्तेरितीदं तत्सूक्ष्मं । सात्मकंभूतपञ्चकम् ॥ ३ ॥ आदौबायुरधोलोके । जगतः स्थितिकारणम् ॥ तस्याई प्रायसोवृतिः। श्वासस्येवात्र नाभितः ॥ ४ ॥ एकारेखाततोबायो-द्वितीयापयसःपरा ॥ वायुनोन्नीयमानत्वाद् । घनस्याब्धेरिवोद्गतिः ॥ ५ ॥ तेनैवधारा लोकेपि । दृश्या मेघस्य तादृशी ॥ जलोपरिष्टात् पृथिवी । चतुरस्रा तदाकृतिः ॥ ६ ॥ तस्यामधोग्रांथरूपा-नागलोकःस्फुटःस्मृतः ॥ उच्चैरेफाकृतिः स्वर्ग । व्यापिकाग्निमुखाश्रयात् ॥ ७ ॥ श्रुन्याकारंनभस्तस्मा स्वर्गाकाशप्रतिष्टया ॥ ततोग्निभूतरेखैका । साक्षात्तस्योर्द्धवृत्तितः ॥ ८ ॥ द्वितीयाकारवाच्यस्या-त्मनोरेखोगामिनः ॥ मातृकायां ततोभूत-पञ्चकं सात्मकं स्मृतम् ॥ ९ ॥ प्रोक्तोविवाहप्रज्ञप्ता-वेवलोकास्थातस्ततः ॥ तदुईसिद्धसंस्थाना-दोनमःसमुदीर्यते ॥१०॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy