________________
अध्याय
अकारस्यात्मनोलेखै-कापरापरमार्हतः ॥ ततः सरेफे हे हंसे । सिद्धेऽसौ पुरुषाकृतिः ॥११॥ विन्दुशुषिर तद्गोला-कारस्थानमकारजः ॥ अलोकस्यानन्तभावं । वक्त्यकारयुगं परम् ॥ १२ ॥ एवमहँ पदध्यानं । व्यक्ताव्यक्ततयोदितम् ॥ तद्ध्यानादव्ययः सिद्धः। स्यादोंकारस्वरूपभाक् ॥ १३ ॥ अस्त्यन्यतीर्थिकश्रद्धा । गणेशस्याकृतिसौ ॥ तेनाप्रोच्चैः करोल्लासः । पुरोविन्दुश्चमोदकः ॥१४॥ परेप्याख्यान्ति शेषोयं । नागराजःकृतोत्फणः ॥ नीचैःकुण्डलितःशब्दा-नुशासनादिकारकः ॥ १५॥ विन्दुरूपो मणिस्तस्य । पुरत.सद्भिरिप्यते ॥ लेखाश्चतस्रस्तादेव्या । बाचोऽवस्थानिरूपिकाः ॥ १६ ॥ आहुरन्येक्षराणांस्यात् । षष्टेरङ्कोयमीदृशः ॥ मातृकायांनियमिताः । षष्टिवर्णा नतत्परे ॥१७॥ व्यञ्जनानि त्रयस्त्रिंशत् । स्वराश्चैवचतुर्दश ॥ अनुस्वार विसर्गौच । जिह्वामूलीय एव च ॥१८॥ गजकुंभाकृतिवर्णः । प्लुताऽश्च परिकीर्तिताः ॥ एवंबर्णा द्विपंचाशत् । षष्टिर्वा मातृकाक्रमे ॥१९॥ षष्ट्यक्षराणां च पलं । तैडोद्युनिशं च तैः ॥ तत्षष्ट्याचऋतुस्तेषां । द्विषष्ट्या वर्षविंशिका ॥ २०॥ तासांत्रयेवत्सराणा- मेकषष्टिःप्रकीर्तिताः ॥ मासषष्ट्यायुगंयद्वा । तैदशभिरप्यसौ ॥ २१॥ ॥ इतिश्रीअर्हद्गीतायांकर्मकाण्डेएकोनत्रिंशतमोऽध्यायः ॥२९॥