________________
अध्याय
रुचिं विनापि सद्वाक्यं । हिताय रोहिणेयवत् ॥ धर्मोपदेशे शुद्धत्वं । केवलज्ञानशालीनाम् ॥ ११ ॥ तदभावेऽवधिमनः । पर्ययश्रुतधीभृताम् ॥ केवलात्श्रुतधी: श्रेष्टाः । यतः प्रकृतिकारणात् ॥१२॥ श्रुतज्ञानेऽक्षरंमुख्यं । संज्ञाव्यञ्जनलब्धिभिः ॥ तत्रिधा तत्रसंज्ञासौ। भगवत्यां नमस्कृता ॥१३॥ तत्वज्ञानं देवतत्वा-गुरूतत्वादशंकितात् ॥ सूत्रार्थालोकनाधर्मोऽ-क्षरभावादिचिन्तनात् ॥१४॥ तदक्षरं पदंब्राह्मी । पुर्वमभ्यस्यते लिपिः ॥ मूलं कलानां सर्वासां । नेत्रं क्षेत्रं गुणश्रिया ॥१५॥ कुलदेवीव जीवानां । जीवनं विश्वपावनम् ॥ ज्ञानोपकारान्मोक्षस्य ॥ साधनं धनबर्धनम् ॥१६॥ देवीसरखतीनाम्ना--धिष्टात्रीश्रुतदेवता ॥ तस्या ब्रह्मेन्द्रएवान्य-मतेगणपतिःसुरः ॥१७॥ देवालोकान्तिकास्तस्या । वश्याः सारखतादयः॥स्वरव्यंञ्जनरक्षायै । यक्षास्तच्छक्तयः परा ॥१८॥ जगतः पालनाद्विश्व-व्याप्तासौ शक्तिरूपिणी ॥ मातृकागीयते श्वेता-म्बरनिष्टाऽर्थसाधनी ॥१९॥ भगवद्वदनाम्भोजे । राजहंसीव दीव्यति ॥ शुद्धवर्णा पदेरक्ता-ऽध्यक्षामौक्तिकदर्शनी ॥२०॥
भारतीभरतक्षेत्रो-त्पत्तेोरसबर्द्धनात् ॥ सरस्वतीमहर्षीणां । राजते राजतेजसा ॥२१॥ | ॥ इतिश्रीअर्हद्गीतायांकर्मकाण्डेऽष्टविंशतितमोऽध्यायः॥ २८ ॥