________________
अध्याय
२७
श्री गौतमउवाच ऐश्वरं नामजयनं । निश्चित्येकाग्रमानसः ॥ शिवस्वरूपमादित्सुः । किकुर्यात्कर्मधार्मिकम् ॥ १ ॥
- श्री भगवानुवाच . तस्यैव दर्शनं कुर्या-दर्शनावराणाच्छिदे ॥ गुरोर्देवस्य चावश्यं । यस्यश्रद्धां धरेन्नरः ॥ २ ॥ यःस्वयं शिवमापन्नः । प्रेक्षणेपि शिवङ्करः ॥ यपूज्यते सदातेजो । भासुरैःश्रीसुरासुरैः ॥ ३ ॥ जिनःसनातनोजिष्णु-रच्युतः पुरुषोत्तमः ॥ स्वभूर्विश्वंभर इति–नाम्ना यो न जनार्दनः ॥ ४ ॥ स्वयंभः परमेष्टीच । नाभेयः सात्विकोत्तमः॥ वृषाङ्कः शङ्करः शंभु-र्यः सर्वज्ञोमहाव्रती ॥ ५ ॥ इत्याद्यन्वर्थनामाई-नुपदेष्टाशिवस्य यः ॥ तस्मान्नान्यःशिवःकश्चित् । मूर्तोतेनाऽस्यसान्तताः ॥ ६ ॥ न गौरीशो नकालीशः । खण्डपशुंधरोनवा ॥ न रुद्रोभैरवो नोयो । नभीमो वा नटेश्वरः ॥ ७ ॥ गौरी सती गले यस्य । लग्नाकाली ततोऽभवत् ॥आर्यापि चंडी तद्भक्ते।युक्तं स्याद्भवसेवकः ॥ ८ ॥ स्पष्टानभोगेर्या गङ्गा । ब्रह्मचारी यदङ्गजः ॥ शिवेन शिरसोदूढा-प्यपतल्लवणम्बुधौ ॥ ९ ध्यायन् श्मशानवेश्मानं । तंभक्त शिवमीक्षते ॥ वन्हिर्जलायते तस्य । विषमप्यमृतायते ॥१०॥