SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अध्याय वायोर्यथा स्थानघातं । वर्णोत्यादेः प्रयत्नतः॥ श्वासात् प्रकृतिसंयोगे । व्यक्तं व्यंजनमुच्यते ॥ ११॥ तत्राप्यायद्वितीयानां । वाणां शषसेपि च ॥ अघोषवं घोषवत्वं । बणे तेभ्यः परे स्फुटम् ॥ १२ ॥ सदीधैव्यंजनैः षष्टया । घटीतत्कालवृद्धितः॥ श्वासातियोगात्कंठ्योपि।हः स्यादौरस्य एव स॥ १३ ॥ समानपंचके स्थानः । प्रसंगात् पंचवर्ग्यपि ॥ अंतस्थाश्च तथोष्माणः । स्वरबर्गानुगामिनः ॥ १४ ॥ अकारो वर्णमुख्योयं । केवलात्मासतीर्थकृत् ॥ नाभिभृर्मरूदेवास्य । योनिलोके प्रसिद्धिभाक् ॥१५॥ अकारप्रभवाः सर्वे-प्येवंवर्णाप्रकीर्तिताः ॥ मातृकायां तदुच्चारे । तेनाकारपरिग्रहः ॥१६॥ केपिसार्वमुखस्थान-मवर्णमूचिरेततः ॥ मात्रायोगेप्युवर्णान्त-स्तस्यशेषस्तुसंधिजः ॥१७॥ ऋवर्णस्तुऋवर्णान्तः । सचवृद्धो गुणेऽग्रिमे ॥ प्रायोऽप्रयोगादीर्घच । नापठीतद्वादशाक्षरी ॥१८॥ अकारे सर्ववर्णोघं । मत्वामात्रानुबर्णिकं ॥ अनुस्वारे विसर्गच । ॐकारं सर्वगं जपेत् ॥१९॥ अकारः परमात्मासौ । विश्वभरोप्यधःक्षिपेत् ॥ उवर्णवत्सर्वमात्रां । तदा विन्दुरिवोर्द्धगः ॥२०॥ न्यासतोप्यव्ययंबक्ति । ॐकारः शक्तिमान्स्वयम् ॥ शद्वादपि क्षणाल्लोकं । व्याप्नोति ब्रह्मतेजसा ॥२१॥ ॥ इतिश्रीअर्हद्गीतायांकर्मकाण्डेषडविंशत्यऽध्यायः ॥ २६ ॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy