________________
अध्याय
8 श्री गौतमउवाच. ॐकारस्त्रिजगद्व्यापीः । नाथ निश्चीयते कथम् ॥जगद्व्याप्तिं विनाब्रह्मा भिधत्ते परमं कुतः ॥ १ ॥
श्री भगवानुवाच । ज्ञेयं यदभिधेयं तत् । नज्ञानमभिधां विना ॥ विनाक्षरं नाभिधापि । नोंकारेण विनाक्षरम् ॥ २ ॥ प्रत्ययार्थाभिधानेन । तत्तुल्यंनामधेयताः ॥ वाच्यवाचकयोरेक्यं । स्यात्तद्वोधसमुद्भवात् ॥ ३ ॥ अकारादेवसर्वेषा-मक्षराणां समुद्भवः ॥ स्थानयत्नादि भेदेन । स्याद्विशेषः प्रकाशते ॥ ४ ॥ वृद्धौअकारेह्याकारः । स्पष्टो मात्रापरिग्रहात् ॥ पृष्टेइकार स्तर्ये-पीकारोऽधोप्युकारकः ॥ ५ ॥ तय॑वृद्धऊकारो-ऽधःपरान्मुखमात्रया ॥ ऋवर्णस्तद्विशेषेण । ऋवर्णः संधिजापरे ॥ ६ ॥ नक्षरत्यक्षरंराति । स्वमर्थ वा ततःस्वरः ॥ केवलोऽकारमेवाय-माकारायास्तुतद्भिदः ॥ ७ ॥ खारं खरसमुहस्तत् । पश्चालनोमकारजः ॥ नकारजोवाऽनुखारो । बिन्दु दविशेषवान् ॥ ८॥ विन्दुद्वयेविसर्गःस्या-न्नैतोपश्चात्वरंविना ॥ स्वरानुरणनरूपौतौ । घण्टादीर्घनिनादवत् ॥ ९ ॥ हस्वादीर्घ श्वासवृध्या। मात्राधिक्यंतत:प्लुते ॥ गीतादावेवतत्कार्यं । वर्णाम्नायेनतद्हः ॥१०॥