________________
अध्याय
अर्हन्नपरिहन्तासा-ऽवऽरूहश्चेतिनामसु ॥ क्रमात् अईउईत्येते । प्राकृते भेदकाःस्वराः ॥ ११ ॥ अईउणितितत्सुत्रं । कृतंपाणिनिनादिमम् ॥ एतद्योगेनसिद्धत्व-मोंकारेण निरुप्यते ॥ १२॥ अईत्यस्मादधोलोकः । उईत्युद्धस्थसूचकः ॥ मेमर्त्यलोकस्तिर्यग्भूः । सुवृत्रस्ततओमिति ॥ १३॥ आकारात्उपवर्गस्य । स्थानीयोज्याससंगृही ॥ अपबर्गस्तदोंकारे । विन्दुःसिद्धोपितस्थितः ॥ १४ ॥ अइत्यात्माताद्वितकें । उर्मेमोक्षःशिवस्ततः ॥ अनाकारबिन्दुरूपः । ॐकारस्तन्मयोमतः ॥१५॥ आतिभक्तिविष्णुरूपात् । उपलब्धिरुकारगा-मेमहाव्रतमोंकार-स्त्रियोगेब्रह्मकेवलम् ॥१६॥ अतिविष्णुरुतिब्रह्मा । मेशिवस्तत्रयीमयः । ॐकारःपरमब्रह्म । ध्येयोगेयस्तदर्थिभिः ॥१७॥ अकारअततीत्यात्मा । सपञ्चमोपयोगतः ॥ उतोमितिमहानन्दे । शिवोविंद्वाकृतिर्भवेत् ॥१८॥ अर्हपदेव्यंजनेन । वर्जितेप्योंतव्ययम् ॥ सिद्धाभिधायकं ध्यायन् । शिवएवनिरंजनः ॥ १९॥ अः सूर्यःसउनायुक्तः । प्रकाशेनमकारके ॥ महावीरे शिवावस्था मोंकारेविन्दुनानमेत् ॥२०॥ अत्युकारे मकारेच । त्रिपदी या व्यवस्थिता ॥ तन्मयस्त्रिजगद्व्यापी । ॐकारः परमेश्वरः ॥२१॥ ॥ इतिश्रीअर्हद्गीतायांकर्मकाण्डपंचविशत्यऽध्यायः ॥ २५ ॥