________________
अध्याय
श्री गौतमउवाच ऐन्द्रस्वरूपं कैवल्ये । संस्कारात्कर्मण्यात्मताम् ॥ कैवल्यसिद्धये तस्मात् । किंकर्म प्रथमंमतम् ॥ १ ॥
8 श्री भगवानुवाच रुचिं नवनवैक्यिः । शास्त्रैर्वाजनयद्गुरुः ॥ ततोभव्यस्य शुश्रूषा । श्रवणाद्याधियोगुणाः ॥ २ शास्त्रादिव्यवहाराय । संज्ञापूर्वयथोच्यते ॥ तथानामपुर:श्राव्यं । देवस्य गुरुधर्मयोः ॥ ३ ॥ ज्ञानिभिः पुर्वजैर्नाम्नो । निक्षेपः प्रथमाकृतः ॥ नाम्नानैर्मल्यमापन्नः । स्थापनाद्यपि मन्यते ॥ ४ ॥ नाम्निवास्थापनायांय-स्तादात्म्यं हृदिचिन्तयेत् ॥ दृष्टेविम्बेश्रुतेनाम्नि । तुष्टः श्रद्धालुरुत्तमः॥ ५ ॥ तन्नाम चरितश्रुत्या । तदेकाग्रेण तन्मना ॥ तत् ध्यानभावनाजंतु । नूनंताद्रूप्यमश्नुते ॥ ६ ॥ नामजापोपिसंक्षेपा-द्विस्तराद्वाऽस्त्यनेकधा ॥ तस्मात्समासतोध्येयः । ॐकारसिद्धबाचक्रः ॥ ७ ॥ अईत्यहन्अशरीरः । पुनसिद्धोप्यतिस्थितः ॥ आआचार्यउपाध्यायः । उ:मकारोमुनिःस्मृतः ॥ ८ ॥ स्मायोइत्येवमोंकारे । पंचापिपरमेष्टिनः ॥ नमनाजापतोऽप्येषां । शिवादीनामिवश्रियः ॥ ९ ॥ अइत्यहनउगुरुःस्या-न्मुनेर्द्धर्मोमकारगः ॥ तस्य संवररूपेण । सुवृत्तात्माहि बिन्दुता ॥१०॥