________________
अध्याय
२७
****
सरामः शस्त्रभृद्वान्यो । हयग्रीवो नृकेसरी ॥ शिवाय न विदासेव्या । ज्ञेयास्ते पुरुषोत्तमः ॥ ११ ॥ यः कैवल्यान्नमायास्पृक् । समदृक्योगनिश्चितः ॥ शुद्धः सिद्धः प्रबुद्धश्च । शान्तः श्रीभगवानयम् ॥ १२ ॥ मत्स्यकूर्मोबराहश्च - हयग्रीवो नृकेसरी ॥ चन्द्रादयो ग्रहापूज्याः । पादपद्मेऽस्य लक्षणैः ॥ १३ ॥ भगवद्भक्तिभाजोऽमी । स्थाप्या भागवतासने || प्रभोपूजनयापूजा - मीषामेष्यामनीषीभिः ॥ १४ ॥ एवं जिनः शिवोनान्यो । नाम्नि तुल्येऽत्रमात्रया ॥ स्थानादियोगाज्जशयो । नवयोश्चैक्यभावनात् ॥ १५ ॥ गुरावपि शिवध्यान - मर्हन्मार्गप्रतिष्टिते ॥ मुखवस्त्रिकया मौन - मुद्रा स्पष्टयति प्रभो ॥ १६ ॥ नशिरोवेष्टनं तेषां । द्विजानामिवासद्विधौ ॥ मातृकायांधकारेपि । शिरोबंध: किमिष्यते ॥ १७ ॥ श्वेताम्बरधरः सौम्यः । शुद्धः कश्चिन्निरम्बरः ॥ कारुण्य पुण्यः संबुद्धः । शान्तः क्षान्तः शिवोमुनिः ॥ १८ ॥ श्वेताम्बरधरा गौराः । पुरतः पुस्तकान्विताः ॥ व्याख्यान मुद्रयायुक्ताः । ध्यायन्तोवा हरिंजिनम् ॥ १९ ॥ सेवते दैवतमिव । गुरुं परंपरागतम् ॥ तत्पार्श्वेनियमात् शास्त्रं । शृणुते वृणुते धृतिम् ॥ २० ॥ गुरूपदेश संज्ञायै । कर्णवेधो विधीयते ॥ उपदेशात्मकर्णत्वं । नरेनाकृतिमात्रतः ॥ २१ ॥
॥ इतिश्री अर्हद्गीतायां कर्मकाण्डे सप्तविंशतितमोऽध्यायः ॥२७॥
**********ALLENG
५७