________________
अध्याय २४
श्री गौतमउवाच ऐश्वर्यवान् शिवःसिद्धो-हन्नथपरमेश्वरः ॥ तदा किं पारमैश्वर्यं । लोकालोकव्यवस्थितम् ॥ १ ॥
श्री भगवानुवाच आधेयनामधारेपि । सूरविम्बेपि सूरवत् ॥ धनवन्नगरं नाम । सवलस्तन्निवासतः ॥ २ ॥ उज्वलःकम्बलस्तिक्ता । शुण्ठीसुरभिचंदनम् ॥ गृहीतेऽग्निमयेंगारे । वाच्यःकिं नाग्निसंग्रहः ॥ ३ ॥ चित्रिते गृहदेशेपि । गृहं चित्रितमुच्यते ॥ चन्द्रेकदेशे दृष्टेपि । दृष्टश्चन्द्रोनवोदितः ॥ ४ ॥ समुद्रोभू: समुद्रस्य । ग्रामभू:ग्रामईत्यपि ॥ यद्वाकणोपिलवणं । राशिलवणमेवहि ॥ ५ ॥ इत्यसौकेवलब्रह्मा-धारात्सद्भिःप्रगीयते ॥ लोकालोकोपितद्रूप-स्तद्योगे तत्वनिश्चयात् ॥ ६ ॥ अस्मादेवनयादर्हत् । कथितःज्ञानवान्गुरुः ॥ अर्हन्वाभगवान्भट्टारकश्च व्यपदिश्यते ॥ ७ ॥ परंपरागमस्तेन । प्रमाणं सांप्रतं मतः ॥ संयतर्षेगुरुगोत्र-पृच्छास्पष्टास्तदागमे ॥ ८॥ खयं गृहीतलिंगत्वं । निंद्यतेऽङ्गेपि पञ्चमे ॥ धर्मस्य विनयोमूलं । तन्मूलं गुरुरेवसः ॥ ९ ॥ अभ्यस्तोपिमहामन्त्रः । स्फुरेन्नैव गुरुं विना ॥ विनयेश्रेणिकोभिल्ल-स्तापसोवानिदर्शनम् ॥१०॥