________________
अध्याय
पूर्वयोगीश्वरध्याना-नैर्मल्यं परयोगिनि ॥ योयं ध्यायति यद्रूपं । तद्रूपं लभते स वै ॥११॥ संसर्गयोगात्ताद्रूप्ये । शुकद्वयनिदर्शनम् ॥ हस्तीसेचनको यद्वा । युक्तिनिम्बाम्रयोरपि ॥१२॥ एवंश्रीभगवानहन् । सिद्धःसर्वगतः शिवः ॥ तेनोक्तः समयो बेदः । पौरुषेयः प्रगीयते ॥ १३॥ तस्यैव भजनाल्लोकः । स्वयं तद्गुणभाजनम् ॥ पुष्पवासनया तैलं । नैव किं तन्मयीभवेत् ॥१४॥ जपनामापि तस्येह । तन्मुक्तौ स्थापयन्मनः ॥ तन्मयीस्याध्यानबलात् । पानीयममृतं न किं ॥१५॥ यदाकारं हृदिध्याये-नरस्तद्रूपमाप्नुयात् ॥ सविषोनिर्विषःकिनो । धवलध्यानधारयाः ॥१६॥ देवस्यस्मरणान्मंत्रा-धिष्टातांऽगेस्य तन्मये ॥ दृश्योऽवतणात्साक्षा-द्वाप्रतीतिःकिमन्यथा ॥ १७ ॥ पिण्डस्थाच्चपदस्थंत-ध्यानं श्रेष्टमतः पुनः ॥ रूपस्थं पुरषाकारं । रूपातीतं ततोऽपिच ॥१८॥ लोकाकृतेर्भावनया । संवरेलोक वंधनम् ॥ संस्थानविचयंधर्म-ध्यानमस्मादिहागमे ॥१९॥ नामाकृतिद्रव्यभावे-वंश्रीपरमेश्वरम् ॥ रागद्वेष परित्यक्तं । शिवं शांत्यात्मकं भजेत् ॥ २०॥ सोपिक्रमेणतादात्म्यं।माहात्म्यादस्य संस्पृशेत् ॥भक्तिरेव महाभक्तिः। व्यक्ताभगवती विभो ॥ २१॥ ॥ इतिश्रीअर्हद्गीतायांकर्मकाण्डेत्रयोविंशत्यऽध्यायः ॥ २३॥