________________
अध्याय
ऐन्द्रज्योतिः प्रकाशाय । रागद्वेषजिगीषया ॥ एकत्वभावनाविश्वे-ऽप्यादिष्टाविश्वबेदिभिः ॥ १ ॥ शुभाशुभाद्यनकत्वं । विशेषविषयंपुनः ॥ हेयोपादेयबोधेन । प्राकाशीच्छाविमुक्तये ॥ २ ॥ पूर्वेपृथक्त्ववीचारं । शुक्लध्यानांहिमामृशेत् ॥ ततोप्येकत्वबीचारात् । केबलज्ञानमुल्लसेत् ॥ ३ ॥ स्यात्सामान्यविशेषात्म-भवःप्रामाण्यगोचरः ॥ ज्ञेयोऽनेकान्तवादेन । नयमार्गादनेकधा ॥ ४ ॥ सामान्यसंग्रहोबक्ति । ऋजुसूत्रोविशेषवाक् ॥ स्वतंत्रौनेगमादेतौ । लोकोक्त्याव्यवहारधीः ॥५॥ मृत्सुबर्णायसांकुंभा । एक एवाम्बुधारणे ॥ परिमाणाकृतिस्थान-मुल्यैःसर्वेपृथक्पृथक् ॥६॥ अपक्वेन जलाहारः । पक्केऽसौतौततःपृथक् ॥ कुंभत्वंकाणकुंभेपि । व्यवहारेणमन्यते ॥७॥ चत्वारोऽर्थनया एतेः। परंशद्वे नयत्रयम् ॥ बाच्यबाचकयोर्योगाद । शाद्विकावार्थकाःसमे ॥८॥ आर्यदेशे धर्म इति । श्रुत्याशब्देन धर्मवान् ॥ देशोऽवती व्रती धर्मी । श्राद्धःसमभिरूढतः ॥९॥ मुनि मुर्निक्रियाविष्ट-स्तन्मुक्तोन मुनिःपुनः ॥ एवंभूतनयादेवं । सिद्धोस्ति केवली ॥१०॥ धर्मीजीवःसमयोपि । ज्ञानवान्श्चेतनारतः ॥ ऐकेन्द्रियाणामज्ञान-मृजुसूत्रनयार्पणात् ॥ ११ ॥ वस्तुस्मृत्याभवज्ञानी । सोऽज्ञानीविस्मृतेर्मतः॥नेगमाशिशुरज्ञानी । व्यवहारदृशोरसात् ॥ १२ ॥