________________
अध्याय
वैरलक्ष्म्या:सरस्वत्या। नैतत्प्रमाणिकंबचः ॥ ज्ञानधर्मभृतोवश्या । लक्ष्मीन जडरागिणी ॥ १३ ॥ ज्ञानी पापाद्विरतिभाग । यः सवै पुरुषोत्तमः॥ तस्यैववल्लभालक्ष्मीः । सरखत्येवदेहभा॥१४॥ ज्ञानीनविरमेन्मोहा-लक्ष्मीस्तस्यैवबौरिणी ॥ अज्ञानव्रतकष्टस्थे । सरखत्याहि शात्रवं ॥१५॥ भोगासक्तोनसद्ज्ञानी। ज्ञानी तत्वाद्विरागवान् ॥ विरुद्धताऽनयोःस्थाना-रस्याच्छायातपयोरिव ॥ १६ ॥ धर्मो यथेप्सितं दातुं । कतुवा परमेश्वरः ॥ यत्रावतीणोंनिर्दभं । ससाधुःपूज्यते सुरैः ॥ १७ ॥ पात्रेऽवतीर्णोदेवादि-स्तन्मुखेनप्रजल्पति ॥ तभक्तिः पात्रभक्त्यैव । साधोधर्मस्थितिस्तथा ॥१८॥ तुलान्यायेन समता । धर्मः सर्वार्थसिद्धिदः ॥ रागो द्वेषोप्यधर्मागं । सारमेतत्सतांगिरः ॥१९॥ द्वेषादपिचदुर्जेयो । रागः संसारकारणम् ॥ तज्जयाद्वीतरागोयं । देवानामधिदैवतम् ॥२०॥ यो वीतरागोऽसौदेव-स्तद्वाक्यानुगतोगुरुः ॥ तदाज्ञाराधनं धर्म-स्सोयंतत्वसमुच्चयः ॥२१॥
॥ इतिश्रीअर्हद्गीतायांनवमोध्यायः॥९॥
PARRESTERNHSMARY
-