________________
अध्याय
ऐन्द्रे प्रवहणे धर्मे । ज्ञानी मार्गप्रकाशकः ॥ निर्यामकस्तुचरणी । दर्शनी पारगः स्थिरः ॥ १ ॥ राग:कजलिकाद्वेषो-ऽनग्निस्थानंविमूर्छनाः ॥ मोहएतत्रयीनाशे पारदोगीसुसिद्धिभाक् ॥ २॥ ज्योतिर्ज्ञानं पुन: स्नेहः। श्रद्धावृत्तंतुवर्तिका ॥ जिनप्रवचने सोधे । धर्मदीप:प्रकाशताम् ॥ ३॥ पञ्चेन्द्रियाणि ज्ञानस्य । क्रियाया:पंचवस्तुतः ॥अनिन्द्रियस्य मनसः । श्रद्धाकार्याणि साधयेत् ॥ ४ ॥ लोकप्रतीता सर्वज्ञे । यथानेत्रत्रयीश्वरे ॥ खेष्टदानेश्वरस्यासौ । ज्ञानादिर्धर्मभूभुजः ॥ ५ ॥ विनारत्नत्रयं धयं । नैवालंकृतिता क्वचित् ॥ व्यसनाद्वारिते तस्मिन् । ध्रुवं दोर्गत्यवान्नरः ॥ ६ ॥ यानपात्रं सितपटः । विनाकस्तारयेजले ॥ तस्माद्भवजलोत्तारे । न्याय्यः सितपटादरः ॥ ७ ॥ ज्ञानं सूत्ररुचिश्चार्थो-नियुक्तिरुभयात्मकम् ॥ चरणंतत्रयेधर्म-शास्त्रंबोधाय देहिनाम् ॥ ८॥ धर्मो वृषभमूर्येव । श्रद्धेय श्राद्धरोचकैः ॥ पदैश्चतुर्भि:पूर्णोयं । नात्र किं सुकृतोदयः ॥ ९ ॥ देव:कृष्णो वराहास्यः । कल्कयित्राभिमन्यते ॥ विप्रयोगिगुरुत्वंच । धर्मसकलितोदितः ॥ १०॥ जातवेदःप्रतिष्टाने । भूसुराद्रितगौरवे ॥ मतिर्नावति हासादौ । रागीधर्मेणतत्रकः ॥ ११ ॥ यत्रास्तिबामनोदेवो । धर्मेनाम्नाजनार्दनः । गुरौचकण्ठमालास्मिन् । न्यायःपूज्य कालप्रियः ॥ १२ ॥