SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अध्याय देवोऽस्थिधन्वा पुरुषा-स्थिमाला यत्रभैरवः ॥ कापालिकाश्च गुरव-स्तद्धर्मे बातया शिवम् ॥ १३॥ देवो मायासुतस्तस्य । मायाराध्यैव बुध्यते ॥ मायाराधनतो ब्रह्म-मयो धर्म:श्रुतौमतः ॥१४॥ देवःश्रीनाभिभूःपूर्वो । वर्धमानस्तथान्तिमः ॥ अन्योप्यजितशान्त्याद्य-स्तत्रधर्मेशिवंदृढं ॥१५॥ क्षमाप्रधानागुरवः । सर्वांगज्ञानभाजनम् ॥ दक्षाःषडङ्गिरक्षायां । शिक्षायां सुगुरोस्तथा ॥ १६ ॥ धर्मस्यमलंविनयः । स्वरूपंनियमाः यमाः ॥ विस्तारः पंचधाचारः । फलं चास्यापनर्भवः ॥१७॥ धर्मध्यानान्मनःशौचं । वाक्शौचं सत्यनिश्चयात् ॥ दयाचरणतःकाय-शौचमालोचयेन्मुनिः ॥१८॥ शौचं चद्रव्यभावाभ्यां । यथार्हचाहतास्मृतम् ॥ अखाध्यायंनिगदता । दशधौदारिकोद्भवम् ॥ १९ ॥ कुदेवे कुत्सिता भक्तिः । कुज्ञानं कुगुरोर्भवेत् ॥ कुलिंगात् धर्मकुत्सैव । ज्ञेया श्रीधनपालवत् ॥ २०॥ उज्वलात्पक्षतःकृष्णे-पक्षेऽन्येयांतिधार्मिकाः॥आर्हताःकृष्णता शुक्ले। विशन्ति सुधियोन किं ॥ २१॥ ॥ इतिअहंद्गीतायांअष्टमोऽध्यायः ॥ ८॥
SR No.008408
Book TitleArhadgita Bhagvadagita ya Tattvagita
Original Sutra AuthorMeghvijay
Author
PublisherMahavir Granthmala
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy