________________
अध्याय
मनोमलविशुध्यै तत् । मुनिर्निर्दोषमाहरेत् ॥ पर्वण्युपोष्यशेषेन्हि । द्विवैकशोऽशनंशनैः ॥ ११ ॥ रागसंवर्धनं भूरि । विकृत्यादिविषादिकम् ॥ द्वेषकृन्मोहकृन्मद्यं । नाश्नीयाद्ज्ञानवान्मुनिः ॥१२॥ यथान्यचेतसोवृत्ते । ज्ञानायलग्नमक्ष्यिते ॥ चन्द्र स्वरूपमत्रापि । तथास्वमनसोप्यहो ॥ १३ ॥ चन्द्रराशिर्मनश्चक्रं । तिथयोवत्सरास्तथा ॥ तत्रिंशांशावादशांशा-न्मासापक्षस्तु होरया ॥ १४ ॥ नवग्रहाःनवांशेभ्यो। बाराःसप्तांशलाभतः ॥ भावाश्चराशिकुण्डल्यां। भाव्या:ग्रहबलोदयात् ॥ १५ ॥ चन्द्रविश्ववशाबिष्टाः। षट्त्रिंशद्वादशाथवा ॥ प्रतिद्रेष्काणमिन्दोस्यात् । नक्षत्रनवकंक्रमात् ॥ १६ ॥ आदौमध्येऽवसानेवा । ज्ञेयंभानां त्रयं त्रयं ॥ त्रयेप्यायंचरेच्चन्द्रे । द्वितीयंभंस्थिरेपुनः ॥ १७ ॥ द्विखभावेतृतीयंभ-मेवंनक्षत्रानिर्णयः ॥ प्रभुत्वान्मनसचेन्दो-रेवंगम्यामनोगतिः ॥१८॥ दुष्टायांमनसोगत्यां । ज्ञातायांनशुभांक्रियाम् ॥ कुर्याच्चीतुर्यवान्धीरः। श्रेष्टायां नाशुभांततः ॥ १९ ॥ अधर्मेचेत्प्रवर्तेत् । मन: स्वीयं पुनः पुनः ॥ तदाभाविमहदुःखं । मत्वातत्धारयेत्ततः ॥ २० ॥ धर्मेयस्यमनोवश्यं । वश्यंतस्यजगत्रयम् ॥ सेवापरवसा:देवाः भवेयुस्तद्भवप्यहो ॥ २१ ।।
॥ इतिअर्हद्गीतायांसप्तमोऽध्यायः॥ ७॥