________________
अध्याय
श्री गौतमउवाच ऐन्द्रस्वरूपंभगवन् । स्तवैवाध्यक्षमीक्ष्यते ॥ दर्शयप्रत्ययंधम्यं । यतस्तत्रोद्यमीनरः ॥१॥
श्री भगवानुवाच ज्योति:शास्त्रप्रत्ययोहि । यथैव ग्रहणादिना ।। तथाधर्मस्यवन्ह्यादे-दिव्येऽस्तिप्रत्ययःस्फुटः ॥ २ ॥ कुमारीवाकुमारः स्या । त्करावतरणादिषु ॥ प्रयोज्य:शकुनादौवा । सएषशीलनिश्चयः ॥ ३ ॥ देवपूजा तीर्थयात्रा । स्वप्नः शुभफलस्तथा ॥ साधोदर्शनवाक्यादिः । शुभःसद्धर्मनिश्चयः ॥ ४ ॥ जन्मपत्रग्रहधर्म-प्रत्ययः क्रियतांजनैः ॥ दातु:पुजयितुर्यद्वा-दुष्टस्याप्यशुभैःशुभैः ॥ ५ हिंस्रोवाऽनृतवाक्चौर-स्तथैवपारदारिकः ॥ दुष्टोतिलोभीनक्कापि । धर्मस्यप्रत्ययस्त्वयम् ॥ ६ ॥ दातुर्दयाभृतः सत्य-वाच:स्त्रीविरतस्यवा ॥ भगवद्भक्तिभाजोवा । लोकलाचैवनिश्चयः ॥ ७ ॥ यथैवबातपित्तादि-विक्रियानाडिकाविधेः ॥ ज्ञेयामनोविधेस्तद्वत् । धर्मस्याऽन्यस्यवास्थितिः ॥ ८॥ शान्तंज्योतिस्तदैवेन्द्रं । भासतेभगवत्यहो ॥ चराचरमयेलोके । सर्वस्यापिसुखावहम् ॥ ९ ॥ निश्चितःसर्वशास्त्रेषु । दयादानदमादिकः ॥ धर्मविधिविधेयोय-मस्मात्क: प्रत्ययःपरः ॥१०॥