________________
अध्याय
तपसि स्वात्मपीडा स्यात् । परपीडार्चनादिषु ॥ तथापि जगतिश्लाघा । पावित्र्यं धर्मनिश्चयात्॥११॥ शुंगाराद्यैःरसै:स्पष्टै-रष्टधापि प्रदीपितैः ॥ शान्तनामाहि नवमो। रस:साध्यःक्रमाद्भुवः ॥१२॥ इत्येभिःप्रत्ययैर्यस्यः । मनोनधर्मकामनम् ॥ उच्छृखलः शृंखलकं । तस्यनैवास्तिदामनम् ॥ १३॥ शुद्धबंशभवे धर्मे । गुणारोहोपिचार्हति ॥ यदाश्रयान्मार्गणेऽस्य । प्रत्ययोलक्ष्यलाभतः ॥ १४ ॥ आशिषःस्युश्चिरं जीवे-त्याद्यादातरि सजने ॥ शीलात्स्त्रीकष्टमोक्षादि-स्तपसाऽपात्रपात्रताम् ॥ १५॥ दप्तिज्योतिर्भवेन्मोहात् । शान्तंज्ञानमयात्मनः ॥ दीप्तादुन्मार्गगमनं । शांताद्धमान स्फुरन्तु विविधाचारा-श्चाराइवमहीभुजः॥शास्त्राभ्यासेति चतुरा। न्याय्याधर्येव तक्रिया ॥ १७ ॥ धर्मादेवजयःपापात् । क्षयोलोकोक्तिरीदृशी ॥ धर्मस्तयैवप्रत्येय-स्तत्रविप्रतिदर्शनम् ॥१८॥ मायाचरित्रेचतुरो-प्युच्यते शठएव सः ॥ चौरोमालम्लुचःस्नातो-प्ययंधर्मस्य निर्णयः ॥ १९ ॥ ख्यातमाबालगोपालं । विरोधे समुपस्थिते ॥ जनैविवेकीप्रष्टव्यः । प्राप्यायेनगतिः शुभा ॥ २० ॥ विशुद्धबुद्धिर्बालोपि । वृद्धोवृद्धः प्रपूज्यते ॥ ज्ञानधर्मोदयादत्र । शालिवाहनिदर्शनम् ॥ २१ ॥
॥ इतिअर्हद्गीतायांपंचमोध्यायः॥५॥