________________
अध्याय
धर्मेऽधिकेऽधिकोधर्म-स्तथाऽधर्मोप्यधर्मतः ॥ कारणानुगतं कार्यं दृष्टतन्न्यायवेदिभिः ॥ १३॥ भवेस्याद्विभवोदाना—दनंतज्ञानताशिवे ॥ शीलाद्रुपंवलंपुर्वे । परेचानंन्तवीर्यता ॥१४॥ आरोग्यंतपसादेहे---ऽप्यदेहेऽकर्मलितता ॥ सुखं सांसारिकंभावा-द्भवेसिद्धेस्वभावजम् ॥१५॥ जिनादेर्नमनान्नम्यः । सेव्यः सेवनयाभवेत्॥पूज्यः पूजनयाध्येयो। ध्यानादात्माऽनयादिशा ॥ १६ ॥ ज्ञानदानेऽक्षयंज्ञानं । सुदृष्टिदृढदर्शनात् ॥ प्राणातिपाताद्विरते-रेवसिद्धेऽक्षयस्थितिः ॥१७॥ अधर्मकारणं त्याज्यं । यथामोक्षार्थिना तथा ॥ ग्राह्योज्ञानमयोधर्मः । शर्मस्यात्शाश्वतंयतः ॥१८॥ संवरः स्यादाश्रवोपि । संवरोप्याश्रवायते ॥ ज्ञानाज्ञानफलं चैत-मिथ्यासम्यक्श्रुतादिवत् ॥ १९ ॥ चित्रसारथिनामाया । कोपोगाणविनिग्रहे ॥ मानः पराऽनतेईस्य । मुनेःपात्रादिसंग्रहः ॥ २० ॥ विषमप्यमृतंज्ञाना-दज्ञानादमृतं विषम् ॥ इत्येवंसाधनैःसाध्यो-ज्ञानधर्मोऽस्तिनिश्चयात् ॥ २१ ॥ ॥ इतिअर्हद्गीतायांचतुर्थोध्यायः॥४॥
BER
११