________________
अध्याय
३
श्री गौतमउवाच ऐन्द्रज्योतिः कथंसाक्षा-नेक्षते तपनादिवत् ॥ कथंतदव्ययं नाथ ॥ ततःस्यात्कीदृशं फलम् ॥१॥
8 श्री भगवानुवाच - ज्योतिश्चान्द्रविषयभूः । सौरंतेजः कषायभूः ॥ आभ्यांयत्परमज्येति-स्तदैन्द्रंपरिभाव्यते ॥ २ ॥ यत्प्रसादेन विषये। व्याप्तावपि न लिप्यते ॥ पवित्रमिन्द्रेतज्ज्योतिः । शंखेश्वर इवोन्नतम् ॥ ३ ॥ राज्ञस्तेजोर्कवत्साक्षा-नैवनैशतमोपहम् ॥ तथापि दीपयेन्न्याय-धर्ममिन्द्रमहस्तथा ॥ ४ ॥ सेविताएवसंशुध्यै । विषयानंदिषेणवत् ॥ क्षारमृन्मेलनात् किंस्या-सयः शुद्धं न चीवरः ॥ ५ ॥ देवतामिवनिसेवतां-विषेनोन्मितंविषयजंसुखंसुधीः॥चित्तधैर्यविधयेति किंजनोनाहिफेनमपिकार्यसाधनम्॥६ सेवितेनबिषयेन दुर्लभा।प्राप्यतेयदिविरागजासभा॥ नागरे पथि यतः शिवंभवे-चौरएवसहिपौरपुंगवः॥७॥ ऐन्द्रज्योति:प्रभावेन । विकटापि तमोघटाः ॥ दिगमोहनमनाक्कुर्यात् । तदेवसमुपास्यते ॥ ८॥ ज्ञानाहानंतपः शीलं । पूजाध्यानंचभावना ॥ क्षणान्मोक्षफलं दत्ते । नामृतं ज्ञानतः परम् ॥ ९ ॥ पथ्यं विनापि भैषज्यं । निरुज्यं कुरुते जने ॥ तथाज्ञानं विनाकष्टं । स्पष्टं निष्टंकयेच्छिवम् ॥ १०॥