________________
अध्याय
विनाज्ञानं न दानादि-रवदातक्रिया मनाक् ॥ फलंकिञ्चनसंधत्ते । प्रत्युतानर्थसंभवः ॥११॥ ज्ञानचक्षुः स्वतो जंतो । मार्गामार्गविवेचनात् ॥ विश्वप्रकाशात् सहस्त्रः। सहस्त्रांशूदयायते ॥ १२ ॥ धौव्यभावनयाद्रव्ये । धूवनिष्टं धूवंस्वतः ॥ निर्मलं केवलं ज्ञानं । दत्तेशिवं भ्रूवं फलम् ॥ १३ ॥ यथाञ्जनादिनाचक्षु । नैर्मल्यंलभतेञ्जसा ॥ लोकभावनया ज्ञानं । तथाभवति शाश्वतम् ॥ १४ ॥ विद्यमाने यथाभानौ । नग्रहे रुचिरारुचिः ॥ सम्यग्ज्ञानोदयेतद्व-त्परिग्रहरुचिःक्वचित् ॥ १५ ॥ कान्तारागमिवाऽसेव्यं । कांतारागं समन्यते ॥ दुःख कञ्चकिसंसर्ग । मत्वातत्वाशयःपुमान् ॥ १६ ॥ संयोगान्सकलान्दत्त । विप्रयोगान्विमर्शयन् ॥ पुर्वमेववियोगार्थी । यति यतिविद्विषः ॥ १७ ॥ वैभवं वैभवंचित्ते । चितयन्सुकृतैकदृक् ॥ भोगानिव भुजङ्गानां । भोगान् स दूरतस्त्यजेत् ॥ १८ ॥ निर्विक्रियाःक्रियाः कुर्व-नशुभध्यानरोधिकाः ॥ ज्ञानवाननुतेलीलाः । शिववासेनरोधिकाः ॥ १९ ॥ अनंतमव्ययं भास्वत् । स्वतोजातमहोदयम् ॥ ऐन्द्रज्योतिर्जनमभ्रं । भ्राजतां शुचिसौरवत् ॥ २० ॥ अनालंम्बमनाछाद्यं । नमूर्त्तव्याप्तमञ्जसा ॥ तेजोऽनन्तमिवानन्त-मैन्द्रंजयतुभास्वरम् ॥ २१ ॥
॥ इतिअर्हद्गीतायांतृतीयोऽध्यायः ॥३॥