________________
२४०
अनेकान्तजयपताकाख्यं प्रकरणम्
* नमः श्रुतदेवतायै। समाप्तं चेदमनेकान्तजयपताकाख्यं प्रकरणम्। कृतिरियं श्वेतभिक्षुश्रीहरिभद्राचार्यस्येति ॥
(खो० व्या०) ५ प्रणिधानमेतदिदं वाऽनुभूयमानावस्थोचितं तत्त्वतस्तदर्थाभावेऽपि कुशलाशयकारि आरोग्यबोधिलाभप्रार्थनाकल्पमिति विद्वद्भिः परिभावनीयम् ॥
नमो वाग्देवतायै भगवत्यै ॥ समाप्तं चेदमनेकान्तजयपताकाख्यं प्रकरणं कृतिधर्मतो जा(या)किनीमहत्तरासूनोराचार्यस्य हरिभद्रसूरेः । टीकाऽप्येषाऽवचूर्णिका भावार्थ१० मात्रावेदनी नाम तस्यैवेति ॥
नमोऽस्त्वनभियुक्तेभ्यो मन्दधीभ्यो विशेषतः ।
यत्प्रभावाद् द्वयमपि ग्रन्थकारत्वमागता ॥१॥ इति श्रीमदनेकान्तजयपताका समाप्ता । ग्रन्थाग्रं ८२५० ॥
१'चार्यश्रीहरि०' इति उ-पाठः। २ 'समाप्ताः छ । अनेकान्तजयपताकावृत्तिः संपूर्णम् ॥ शुभ(भ) भवतु ॥ कल्याणमस्तु ॥' इति हु--पाठः ।