________________
अघिकारः ]
खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
न च तस्यैवायं खलु दोषो यद् विषययोग्यतासदृशः । कृत एव हि तेन गुणः खवीर्यतः समधिको मन्ये ॥ ७ ॥ आलोच्यमतो ह्येतत् प्रकरणमजडैरपि प्रसादपरैः ॥ जडजनहितार्थमेते शिष्टादृतवल्लभाः प्रायः ॥ ८ ॥ न च शिष्टानामुचिते स्खलितं परिहितनिबद्धकक्षाणाम् । अभ्यर्थना पुनरियं तत्स्मृतये प्रकरणसमाप्तौ ॥ ९ ॥' कृत्वा प्रकरणमेतद् यदवाप्तं कुशलमिह मया तेन मात्सर्यदुःखविरहाद् गुणानुरागी भवतु लोकः ॥ १० ॥ ( खो० व्या० )
न चेत्यादि । न च तस्यैव-सद्गुरोरयं खलु दोषः यत् - यस्मात् विषययोग्यता सदृशः - कर्मयोग्यतानुरूपः कृत एव तेन गुरुणा गुणः स्ववीर्यतः - आत्मसामर्थ्यात् समधिको मन्ये एवमहमिति ॥ ७ ॥
२३९
५०
आलोच्यमित्यादि । आलोच्यम् - आलोचनीयमतः - अस्मात् गुरुकृतगुणात् १५ हि- यस्मादर्थे अस्य च व्यवहितः सम्बन्ध इति दर्शयिष्यामः । किमालोच्यमित्याहएतत् प्रकरणम् | कैरित्याह- अज डैरपि प्रकरणकाराट्र विद्वत्तमैरपीत्यर्थः । किम्भूतैरित्याह- प्रसाद परैः प्रकरणकारे इति । किमर्थमित्याह - जडजनहितार्थम् । कथमेतदालोचनात् तद्धितमित्याह-- एते-जडा यस्मात् शिष्टाहतवल्लभाः प्रायः परप्रत्ययेन प्रवृत्तेः ॥ ८ ॥
न चेत्यादि । न च शिष्टानां महात्मनामुचिते कर्तव्ये स्खलितम्, भवति इति शेषः । किंविशिष्टानामित्याह - परहित निबद्धकक्षाणाम् । वस्तुतः परहितनिबद्धकक्षत्वमेव शिष्टानां शिष्टत्वम् । यद्येवं किमर्थमेषां प्रकरणालोचनं प्रति प्रार्थना इत्याशङ्कापोहायाह- अभ्यर्थना पुनरियं-प्रकरणालोचनगोचरा तत्स्मृतयेशिष्टस्मृत्यर्थं मङ्गलबुद्ध्या प्रकरणसमाप्तौ ॥ ९ ॥
१५
अवसानमङ्गलार्थमिति योऽर्थः स्वभूमिकौचित्यतः प्रकरणकारः समाप्य प्रकरणं कुशलयोगोऽयमिति प्रणिधानमाह कृत्वेत्यादिना । कृत्वा प्रकरणमेतत्-अनेकान्तजयपताकाख्यं यदवाप्तं कुशलं - पुण्यं शुभयोगा सेवनेन इह - लोके मयेत्यात्मनिर्देशः तेन - कुशलेन कथं भवत्वित्याह- मात्सर्यदुःखविरहात्मात्सर्यदुःखविरहेण गुणानुरागी - गुणप्रमदसङ्गतो भवतु लोकः सर्व एव ॥ १० ॥ ३०
१-४ आर्या ।