SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २३८ अनेकान्तजयपताकाख्यं प्रकरणम् ( मूलम् ) जातो गुरुप्रसादादेतत्सम्पादने समर्थोऽहम् । न च चित्रं सत्सङ्गो ह्यसतोऽपि न निष्फलो भवति ॥ ४ ॥ मन्दनयनोsपि लोके सहस्ररश्मिप्रभावतो नियमात् । पश्यति किञ्चिदवितथं वस्तुनि सर्वत्र सिद्धमिदम् ॥ ५ ॥ सद्गुरुयोगेनापि च न यतो मे तदनुरूपयोधाप्तिः । स्वकृतापराधतस्तज्जड एवास्मीत्यसन्दिग्धम् ॥ ६ ॥ ( स्वो० व्या० ) [ षष्ठः १० जात इत्यादि । जातः - निष्पन्नः गुरुप्रसादात् हेतोः एतत्सम्पादने -सद्बोधहितसम्पादने समर्थोऽहं गुरुप्रसादसामर्थ्यमेतत् । न च चित्रमेतत् । सत्सङ्गो यस्मात् असतोऽपि पुंसो माहशस्य न निष्फलो भवति, किन्तु सफल एव भवतीति ॥ ४ ॥ अधिकृतमेव दृष्टान्तेन समर्थयन्नाह मन्देत्यादिना । मन्दनयनोऽपि प्रमाता १५ राज्यन्धादिः लोकेऽस्मिन् सहस्ररश्मिप्रभावतः - आदित्यप्रभावेन नियमात् पश्यति किश्चित् । तथाविधं धर्मजातं अवितथं - यथावस्थितमेव वस्तुनि - स्थाण्वादौ सर्वत्र सिद्धं - प्रतिष्ठितमिदं लोक इति ॥ ५ ॥ सद्गुर्वित्यादि । सद्गुरुयोगेनापि च हेतुना न यतो मे तदनुरूपबोधाप्तिः - सद्गुरुयोगानुरूपबोधाप्तिः । कुतो नेयमधिकृत्याह - स्वकृतापराधतः२० स्वकृतकर्मापराधेन तत् तस्माज्जड एवास्मीत्यसन्दिग्धमेतत् ॥ ६ ॥ ( विवरणम् ) २५ इति श्रीमुनिचन्द्रसूरिविरचितेऽनेकान्तजयपताको द्योत दीपिकावृत्तिटिप्प ura मुक्तिवादाधिकारः समाप्तः । तत्समाप्तौ च समाप्तमिदं निजविनेयरामचन्द्रगैणिकृतात्यन्तान्तरैङ्गसात्वांहा स्पेन श्रीमदने कान्तजयपताकावृत्तिटिप्पणकम् इति । कष्टो ग्रन्थो मतिरनिपुणा सम्प्रदायो न तादृकू शास्त्रं तत्रान्तरमतमतं सन्निधौ नो तथापि । स्वस्य मृत्यै परहितकृते चात्मबोधानुरूपं मागमागः परमहमिह व्यावृतश्चित्तशुद्धया || " इत्यनेकान्तजयपताको द्योतटिप्पणकं समाप्तम् । प्रत्यक्षरगणनया टिप्पणकस्य २० मानं प्रथामं २००० ॥ १-३ आर्या । ४ 'गणितात्यन्ता' इति च पाठः । ५ 'रङ्गथाव्येन श्री०' इति ख- पाठः; च - पाठस्तु रमथाध्पेन श्री० । 'रजसाहाय्येन' इति स्यात् । ६ 'मागामागः पमहमिह व्यापृतचित०' इति ख-च- पाठः । ७ मन्दाक्रान्ता । ८ 'गणनायां' इति च पाठः । ९ '१७५०' इति च-पाठः ।
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy