________________
२३७
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् २३७
(मूलम् ) प्रतिपक्षदोषदर्शनविधिना शक्यं च कर्तुमेतेषाम् । सद्बोधहितं प्रायः कृपाऽप्यतः सङ्गतैतेषु ॥ ३॥
(खो० व्या०) प्रतिपक्षेत्यादि । प्रतिपक्षदोषदर्शनविधिना निरन्वयनाशपक्षे तदुत्तराहेतुकत्वाद्यापत्तिलक्षणेन शक्यं च कर्तुमेतेषां-प्रस्तुतजडानां किमित्याह-सद्बोधहितं प्राय:-बाहुल्येन कृपाऽप्यतः कारणात् सङ्गता मोहासुखसंवेगयुतकृपात्यागतः अन्यहितयुतत्वेन एतेषु-अधिकृतजडेषु ॥ ३॥
(विवरणम्) (८-९) मोहासुखसंवेगयुतकृपात्यागतोऽन्यहितयुतत्वेनेति । इह त्रिविधा संवेगः-मोहगर्भः असुखगर्भः सज्ज्ञानगर्भश्चेति । तथा च पठन्ति
"आर्तध्यानाख्यमेकं स्यान्मोहगर्भ तथा परम् । सज्ज्ञानसङ्गतं चेति वैराग्यं त्रिविधं मतम् ॥ इष्टतरवियोगादिनिमित्तं प्रायशो हि यत् । यथाशक्त्याऽपि हेयादावप्रवृत्त्यादिवर्जितम् ॥ उद्वेगकृद्विषादायमात्मघातादिकारणम् । आर्तध्यानं ह्यदो मुख्यं वैराग्यं लोकसम्मतम् ॥ एको नित्यस्तथा कक्षेऽस्य सम्बन्धेहः(१) सर्व निश्चयाद् भूयो भवनैर्गुण्यदर्शनात् ॥ तत्त्यागायोपशान्तस्य सद्वृत्तस्यापि भावतः । वैराग्यं तदतं यत् तन्मोहगर्भमुदाहृतम् ॥११ भूयांसो नॉमिनो बद्धा बोझेनेच्छादिना ह्यमी । आत्मानस्तद्वशात् कष्टं भवे तिष्ठन्ति दारुणे ॥१५ एवं विज्ञाय तत्यागविधित्यागश्च सर्वथा ।
वैराग्यमाहुः सज्ज्ञानसङ्गतत्त्वदर्शिनम् ॥ ततः मोहयुक्तस्यासुखयुक्तस्य प्राणिनो यः संवेगस्तद्युक्ता याऽसौ कृपा तस्याः त्यागत:-परिहारात सकाशाद् यदन्यत् लक्षणमाभ्यां कृपाभ्यां तृतीयपालक्षणं हितं सधुतत्वेनेति ॥
१आर्या । २ 'सज्ञान.' इति च-पाठः1 ३ अनुष्टुप् । ४ 'संवेगश्च वैराग्यं इष्टतर.' इति च-पाठः। ५'वतेता' इति ख-च-पाठः। ६ अनुष्टुप् । ७ 'उद्वेगकृषिदायमात्म०' इति ख-च-पाठः। ८ 'भात. ध्यानं यदों' इति च-पाठः। ९ अनुष्टुप् । १० 'सम्बन्धेह' इति च-पाठः । ११-१२ अनुष्टुप् । १३ 'नामिनो इति च-पाठः। १४ 'बाह्येने स्थादिना' इति च-पाठः। १५ अनुष्टप। १६ 'दर्शनम इति च-पाठः। १७ अनुष्टुप् । १८ मात्रां कृपाभ्यां' इति च-पाठः। १९ क्रियालक्षणं' इति ख-पाठः।