________________
२३६ अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम्) स्वेन तत्खरूपहानिप्रसङ्गात् ॥
एतेन 'यः पश्यत्यात्मानम्" इत्ययमपि सङ्ग्रहग्रन्थः प्रत्युक्ता, ५ उक्तार्थसङ्ग्रहपरत्वात्, तस्य च निराकृतत्वात् , अतोऽनेकान्ता
त्मक एव घस्तुतत्त्वे प्रमाणप्रमेयव्यवहारसिद्धिरुक्तवत् सकलदोष- - विरहादिति ॥
एवमनेकान्तात्मकमिह तत्त्वं दर्शितं मया लेशात् । जडजनहिताय कृपया गुरुप्रसादाजडेनापि ॥१॥ प्रतिपक्षदोषवत्या ये खल्वेकान्तवादयुक्त्याऽपि । विस्मयमुपनीयन्ते त इह जडाः प्रस्तुता नान्ये ॥२॥
(स्वो० व्या०) इतरेतरात्मकत्वेन पररूपाभावाभावेन पररूपप्राप्त्या । इतरेतरात्मकत्वमनेनेतरेतरास्मकत्वेन तत्स्वरूपहानिप्रसङ्गात्-प्रमाणादिवस्तुस्वरूपहानिप्रसङ्गात् । प्रमाणस ५प्रमेयरूपापत्त्या प्रमेयस्यापि प्रमाणरूपापत्त्या स्वरूपहानिप्रसङ्ग इति ॥
उपसंहरन्नाह-एतेनेत्यादि । एतेन-अनन्तरोदितेन सर्वेणैव यः पश्यत्यास्मानमित्ययमपि सङ्ग्रहग्रन्थ:-मूलपूर्वपक्षोपन्यस्तः प्रत्युक्तः । कुत इत्याहउक्तार्थसङ्ग्रहपरत्वात् तस्य, तस्य च-उक्तार्थस्य निराकृतत्वात्। अत:
अस्मात् कारणात् अनेकान्तात्मक एव वस्तुतत्त्वे किमित्याह-प्रमाण२० प्रमेयव्यवहारसिद्धिः । कुत इत्याह-उक्तवत्-यथोक्तं तथा । किमित्याहसकलदोषविरहादिति ॥
उपसंहरन्नाह-एवमित्यादि । एवम्-उक्तनीत्या अनेकान्तात्मकमिह-प्रकरणे तत्त्वं दर्शितं मया लेशात् लेशेन । किमित्याह-जडमतिहिताय । केन हेतुनेत्याह-कृपया । कुतो हेतोरित्याह-गुरुप्रसादात् । किंविशिष्टेन मयेत्याह२५ जडेनापि-मन्दबुद्धिनाऽपि ॥१॥
अधिकृतार्थमेव विशेषेण व्याचिख्यासुराह-प्रतिपक्षेत्यादि । प्रतिपक्षदोषवत्या नित्याद्यर्थगोचरया ये खल-य एव एकान्तवादयुत्त्याऽपि नित्यस्य क्रम-योगपद्याभ्यामर्थक्रियाविरोधादिलक्षणया प्रतिपक्षदोषवती चेयमनित्यस्यापि तथैव तद्वि
रोधादिति विस्मयमुपनीयन्ते ये तथाविधालोचनारहिताः त इह-प्रक्रमे जडाः ३० प्रस्तुताः, नान्ये-एकान्ताभिनिविष्टा अभिगृहीतमिथ्यादृष्टय इति ॥ २॥
१ द्रष्टव्यं प्रथमस्य स्खण्डस्य ३३तम पृष्ठम् । २-३ आर्या । ४ ‘स वैणैव यः' इति अ-पाठः । ५ द्रष्टव्यं प्रथमे खण्डे ३३समं पृष्ठम् । ६ 'अधिकृतार्यार्थमेव' इति इ-पाठः ।