________________
२३५
अधिकारः] स्त्रोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) सदसदादयः, तद्वत् केवलानुपलम्भात् तथाखभावत्वात् तथाऽनु: भवसिद्धेरिति छायाऽऽतपानुविद्धान भवतीति विरोधकल्पनायामपि का प्रसङ्गः सदसदादिषु? । न ह्यणुरचेतन इति ज्ञानेऽपि तदत् ५ तद्विरोधाभिधानं युक्तम् , तत्वभावभेदोपपत्तेः इत्येवं शीतोष्णा. दिष्वपि योज्यम् ॥
एवं च 'अस्य तदतद्वादिनो निष्कलङ्कमतिसमुत्प्रेक्षितसन्यायानुसारतः सर्वमेव प्रमाणप्रमेयादि प्रतिनियतं न घटते" इति वचनमात्रम्, तदतद्वादिन एव स्वपरभावाभावोभयात्मकतया । सर्ववस्तूनां प्रतिनियतत्वसिद्धेः, अन्यथा चासिद्धेः, इतरेतरात्मक
(खो० व्या०) ननुविद्धाः सदसदादयः, किन्वितरेतरानुविद्धा इति । कुत इत्याह-तद्वत्छाया-ऽऽतपादिवत् केवलानुपलम्भात् सदसदादीनाम् । अनुपलम्भश्च तथाखभावत्वात्-इतरेतरानुविद्धखभावत्वात् । तथाखभावत्वं च तथाऽनुभवसिद्धेः१५ इतरेतरानुविद्धसदसदायनुभवोपलब्धेः । इति-एवं छायाऽऽतपानुविद्धा न भवति।इति-एवं विरोधकल्पनायामपि सत्यां छाया-ऽऽतपादीनांकाप्रसङ्गः सदसदादिषु लक्षणभेदात् १ । एतत्प्रकटनायैवाह न घणुरित्यादिना । न ह्यणुः अचेतन इति कृत्वा ज्ञानेऽपि चेतने तद्वत्-अणुवत् तद्विरोधाभिधानंचेतनत्वविरोधाभिधानं युक्तम् । कथं न युक्तमित्याह-तत्वभावभेदोपपत्तेः २० तयोः-अणु-ज्ञानयोः स्वभावभेदस्तत्वभावभेदस्तदुपपत्तेरिति । एवं शीतोष्णादिध्वपि निदर्शनेषु योज्यम् ॥ ___ एवं चेत्यादि । एवं च-उक्तनीया अस्य तदतदादिनः-स्याद्वादिनः निष्कलङ्कमतिसमुत्प्रेक्षितश्वासौ सन्यायश्च तदनुसारतः तदनुसारेण । . किमित्याह-सर्वमेव प्रमाणप्रमेयादि प्रतिनियतं न घटते इति वचनमान २५ निरर्थकं मूलपूर्वपक्षोक्तमिति । कथमित्याह-तदतद्वादिन एव-अनेकान्तवादिन एव खपरभावाभावोभयात्मकतया कारणेन सर्ववस्तूनां-प्रमाणादीनां प्रतिनियतत्व सिद्धेः कारणात्, अन्यथा चासिद्धेः प्रतिनियतत्वस्य । असिद्धिश्च
१'तत्तद्विरोधाः' इति ग-पाठः । २ द्रष्टव्यं खण्डस्याद्यस्य ३२तमं पृष्ठं ३३तमं च । अत्र 'प्रमाणप्रमेयादिरूपपाठस्य स्थाने 'प्रमाणादि पाठः । ३ 'अन्यथा सदसिद्धेः, इतरे.' इति क-पाठः। Yष्टव्यमाद्यस्य खण्डस्य ३२तमं पृष्ठ ३३तमं च ।