________________
२३४
अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम्) त्वेऽन्यत्राहेतुत्वमित्यनेकात्मकता। ततश्चैवं तदतदात्मकमेव प्रमाणप्रमेयरूपं सर्व वस्तुतत्त्वम् । न च विरोधभार, विरोधासिद्धेः सद५सवादीनामितरेतरानुवेधात्, अन्यथातदनुपपत्तःप्रमाणाविरोधात्, तथैव तत्प्रवृत्तेः, प्रतिनियतत्ववेदनादन्वयव्यतिरेकसिद्धः, अन्यथा प्रतीत्यभावाद वस्तुन एवानुपपत्तेः, नियमतो विरोधात्, सर्वत्रैकान्तवादिनस्तदसत्तापत्तिलक्षणो विरोध इति निदर्शितं प्राई ॥
एतेनेकदा वस्तुवस्त्वन्तरानापत्तिलक्षणो विरोधः प्रत्युक्तो य १० उच्यते परैः छाया-ऽऽतपवत् शीतोष्णवत् सुख-दुःखवद् वेति । कुतः? असमानत्वात् । न हि छाया-ऽऽतपादिवदितरेतराननुविद्धाः
(खो० व्या०) साध्यविपर्यये हेतुत्वे तद्गमकत्वेन अन्यत्र-साध्ये अहेतुत्वमिति एवं अनेकात्मकता हेत्वाभासेऽपि । ततश्चेत्यादि । ततश्चैवम्-उक्तनीत्या तदतदात्मक"मेव प्रमाणप्रमेयरूपं सर्व वस्तुतत्त्वम् । न च विरोधभागेतत् , विरोधासिद्धेः । असिद्धिश्च सदसदादीनाम् । 'आदि'शब्दान्नित्यानित्यादिग्रहः । किमित्याह-इतरेतरानुवेधात् कारणात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा तदनुपपत्तेः-सदसदाद्यनुपपत्तेः तथा प्रमाणाविरोधात् । अविरोधश्च तथैवसदसदादिप्रकारेणैव तत्प्रवृत्तेः-प्रमाणप्रवृत्तेः प्रतिनियतत्ववेदनात् नेदं सद२० सद्रूपताभावे । तथाऽन्वयव्यतिरेकसिद्धेः नेयं नित्यानित्यताभावे । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा प्रतीत्यभावात् कारणात् वस्तुन एवानुपपत्तेः, नियमतो विरोधात् । एतदेव निगमयति-सर्वत्रेत्यादि । सर्वत्र-सदसदादौ
एकान्तवादिनः किमित्याह-तदसत्तापत्तिलक्षणः-सदायसत्तापत्तिलक्षणः . विरोधः । इति एवं निदर्शितं प्राक्-सदसद्रपाधिकारे ॥ २५ एतेनेत्यादि । एतेन अनन्तरोदितेन एकदा-एकस्मिन् काले वस्तुनो वस्त्वन्त
रानापत्तिर्वस्तुवस्त्वन्तरानापत्तिः सैव लक्षणं यस्य विरोधस्य स तथाविधो विरोधःप्रत्युक्तो य उच्यते परैः-एकान्तवादिभिः । एनमेवाह छाया-ऽऽतपेत्यादिना । छायाऽऽतपवादिति निदर्शनम् । एवं शीतोष्णवत् सुखदुःखवद् वेति निदर्शनम् । बहुत्वं विरोधव्याप्तिसन्दर्शनार्थम् । कुतोऽयं प्रत्युक्त इत्याह-असमान३. त्वात्। असमानत्वमेवाह-न हि छायाऽऽतपादिवत् प्रतिनियततया इतरेतरा
, 'सत्वापत्ति०' इति ग-पाठः। २ प्रथमे खण्डे प्रथमेऽधिकारे। ३ 'नेयं निपात्या नित्य.' इति ङ-पा। ४ प्रथमे खण्डे ।