________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् २३३
(मूलम्) खव्यक्तिमानत्वेन मानत्वात्, मानान्तरमानत्वेन त्वमानत्वात् ।।
इत्थं तदाभासमपि भावनीयम्, तस्याप्यनेकात्मकत्वात् विसंवादेन तदाभासताया व्याप्तेः, तत्राव्यभिचारेण मानलक्षणयोगः५ तस्यापि ज्ञेयत्वात् ततस्तत्प्रतीतेश्चेति भावना ॥ ..
नच प्रमेयवदपरिच्छित्त्यात्मकमेवैतत् , तथाप्रतीतेर्लोकादिविरोधात् अदृष्टविभ्रमप्रतीत्यात्मकतया तु तदाभासता ॥ एवं हेत्वाभासेऽप्यसिद्धादी साध्यविपर्ययप्रतिबद्धतया तत्र हेतु
(खो० व्या०) इति-एवं स्यान्मानं-कथञ्चिन्मानं स्वगतमानत्वेनैव । इति-एवं शोभनव तत्त्वनीतिः । एतदेवाह-कथञ्चित् स्वव्यक्तिमानत्वेन मानत्वात्, मानान्तरमानत्वेन त्वमानत्वात् इति ॥
इत्थम्-एवं तदाभासमपि-प्रमाणाभासमपि भावनीयं तदतदात्मकमेव । कथमित्याह-तस्यापि-तदामासस्य । किमित्याह-अनेकात्मकत्वात् ,तदतदात्म-१५ कत्वादित्यर्थः । एतदेवाह-विसंवादेन,विषयगतेनेति प्रक्रमः। तदाभासतायाप्रमाणाभासताया व्याप्तेः । किमित्याह-तत्र-'विसंवादे अव्यभिचारेण हेतुना तदाभासतायाः । किमित्याह-मानलक्षणयोगः खव्याप्यगमकत्वात् । तस्यापीसादि । तस्यापि-विसंवादस्य ज्ञेयत्वात् तथाज्ञायमानत्वेन ततः-तदाभासात् तत्प्रतीतेश्च-विसंवादप्रतीतेश्च यथावस्थितज्ञेयाधिगमनिमित्तं च मानमिति भावना ।। २० - न चेत्यादि । न च प्रमेयवदिति निदर्शनं व्यतिरेकि, अपरिच्छित्त्यात्मकमेव-एकान्तेन एतत्-तदाभासम् । कुत इत्याह-तथाऽतीते:-अपरिच्छित्त्यात्मफत्वेनाप्रतीतेः । अप्रतीतिश्च लोकादिविरोधात्, लोकसमययुक्तिविरोधादित्यर्थः । अदृष्टेत्यादि । अदृष्टात्-कर्मणो विभ्रमः अदृष्टविभ्रमः, तत्प्रधाना प्रतीतिः तदात्मकतया पुनः कारणेन तदाभासता-मानाभासता परिच्छित्त्यात्मकत्वेऽपि ॥ ३५
एवं सामान्येन मानाभासस्य कथञ्चिन्मानतामभिधायाधुनाऽनुमानाभासमधिकृत्य आह-एवमित्यादि । एवम्-उक्तनीत्या हेत्वाभासेपि। किम्भूते इत्याह-असिद्धादौ-असिद्धानकान्तिकविरुद्ध साध्यविपर्ययप्रतिबद्धतया कारणेन तत्र
(विवरणम्) . (१७) प्रमाणाभासताया व्याप्तेरिति । सर्वमपि प्रमाणाभासं विषयविसंवादेन ३० व्याप्तमित्यर्थः । ततो विसंवादे साध्ये प्रमाणाभासमपि प्रमाणमित्यायातमिति ॥
१ 'तया व्याप्तेः' इति ग-पाठः। २ 'मानत्वेनामान.' इति हु-पाठः । ३ 'वादेन अव्यमि०' इति क-पाठः। ४ 'खव्यापकत्वात्' इति क-पाठः । ५ 'प्रतीतेः परि०' इति उ-पाठः।
अनेकान्त० ३०