________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
यचोक्तम्- 'किञ्चानेकान्तवादिनो मानमपि न मानमेव, स्यान्मानमिति तत्त्वनीतेरित्थं तदाभासमपि, ततश्चैवं तदतदात्मके प्रमाण५ प्रमेयरूपे सर्वस्मिन्नेवास्मिन् वस्तुतत्त्वे विरोधाभाजि अस्य तदतद्वादिनो निष्कलङ्कमतिसमुत्प्रेक्षितसश्यायानुसारतः सर्वमेव प्रमाणप्रमेयादि प्रतिनियतं न घटते' इति एतदप्ययुक्तम्, अनेकान्तवादापरिज्ञानात्, प्रलापमात्रत्वात्, तज्ज्ञाने सत्यस्याप्रवृत्तेः । तत्र यत् तावदुक्तम्- 'अनेकान्तवादिनो मानमपि न मानमेव' इत्यत्र सिद्ध• साध्यता, विजातीयादिमानान्तरत्वेनामानत्वात्, अन्यथा तदभावप्रसङ्गात् इतरेतररूपतापत्तेः । तथाहि - प्रत्यक्षं प्रत्यक्षमानत्वेन मानम्, अनुमानादिमानत्वेनामानम्; एवमनुमानाद्यपि; अन्यथा तत्प्रतिनियतत्वाभाव इति स्यान्मानमिति शोभनैव तस्यनीतिः, कथञ्चित्
२३२
[ षष्ठः
( स्वो० व्या० )
योक्तमित्यादि । यच्चोक्तं मूलपूर्वपक्षे' - किञ्चानेकान्तवादिन इत्यादि यावत् सर्वमेव प्रमाणप्रमेयादि प्रतिनियतं न घटते इति एतदप्ययुक्तम्अघटमानकम् । कथमित्याह- अनेकान्तवादापरिज्ञानात्, अत एव प्रलापमात्रत्वात् तज्ज्ञाने सति - अनेकान्तवादपरिज्ञाने सति अस्य - प्रलापमात्रस्य अप्रवृत्तेः कारणात् । एतद्विशेषेणोपदर्शयन्नाह तत्रेत्यादि । तत्र यत् तावदुक्तं २० मूलपूर्वपक्षे - अनेकान्तवादिनः - वादिनः किमित्याह- मानमपि न मानमेवेत्यत्र सिद्धसाध्यता । कथमित्याह-विजातीयादिमानान्तरत्वेन प्रत्यक्षेऽधिकृतेऽनुमानमानान्तरत्वेन अमानत्वात् । 'आदि' शब्दात् सजातीयव्यक्त्यन्तरमानत्वपरिग्रहः । इत्थं चैतदङ्गीकर्त्तव्यमित्याह- अन्यथेत्यादि । अन्यथा - एवमन - भ्युपगमे तदभावप्रसङ्गात् विवक्षितमानाभावप्रसङ्गात् । प्रसङ्गश्वेतरेतररूप२५ तापत्तेः - प्रत्यक्षादेरनुमानादिरूपतापत्तेः अनुमानादेश्व प्रत्यक्षादिरूपतापत्तेरिति । विजातीयादिमानान्तरत्वेनामानत्वमुपदर्शयति तथाहीत्यादिना । तथाहीत्युपप्रदर्शने । प्रत्यक्षं प्रत्यक्षमानत्वेन मानम्, अनुमानादिमानत्वेन अमानम् । एवमनुमानाद्यपि स्वगतेनैव मानत्वेन मानम्, मानान्तरमानत्वेन त्वमानमिति । अन्यथा - एवमनभ्युपगमे तत्प्रतिनियतत्वाभावः - प्रत्यक्षादेर्नियतत्वाभावः ।
14
१ प्रथमे खण्डे ३२ तमे पृष्ठे ३३ तमे च । अत्र 'प्रमाणप्रमेयादि' इति पाठो नास्ति, किन्तु 'प्रमाणादि' इति पाठः । २ आये खण्डे ३२ तमे पृष्ठे । ३ प्रथमे खण्डे ३२ मे पृष्ठे ३३ तमे च । ४ 'सति अस्य अनेका०' इति क-पाठः । ५ प्रथमे खण्डे ३२ मे पृष्ठे ।