________________
अधिकार: ]
स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम्)
एवमनेकान्तत एव भावतो मुक्तिसिद्धिः, अन्यथाऽयोगात् । सकलकर्मविगमाच्च सर्वथा सङ्केशाभावान्नेदमपुष्कलमिति कथं नोपादेय फलप्रकर्षः उक्तवत् तदन्यसाधारणत्वासिद्धेः नेदं साप-५ वादमिति कथमस्य संसारिष्वपि भावः ? ॥
एतेन ' तथाहि न वः संसार्यपि सर्वथा संसार्येय, एकान्तवादापत्तेः, अपि त्वसंसार्यपीति नेदमकृत्स्नं हेयानर्थोत्कर्ष:' इति एतदपि प्रत्युक्तम्, अर्थतस्तुल्ययोगक्षेमत्वात्, संसार्यन्तर रूपेणासंसारित्वम्, अन्यथा तदभावप्रसङ्ग इत्युक्तप्रायम् । सङ्क्लेशकृत्कर्मयोगश्च १० संसारित्वमिति तद्भावेन नेदमकृत्स्नम्, अपि तु कृत्स्नमेवेति कथं न हेयानर्थोत्कर्ष इति भावनामात्रमेतत् ॥
२३१
( खो० व्या० )
एवमित्यादि । एवम् उक्तनीत्या अनेकान्तत एव भावतः - परमार्थेन मुक्तिसिद्धिः, अन्यथाऽयोगात् मुक्तिसिद्धेः । सकलेत्यादि । सकलकर्म - १५ विगमाच कारणात् सर्वथा - एकान्तेन सङ्क्लेशाभावात् नेदं - मुक्तत्वम् अपुष्कलं किन्तु पुष्कलमेव, संसारित्वेनाननुविद्धत्वात् । इति एवं कथं नोपादेयफलप्रकर्षः ? एतत्प्रकर्ष एव । कथमित्याह-उक्तवदित्यादि । उक्तवत्-यथोक्तं तथा तदन्यसाधारणत्वासिद्धेः, प्रक्रमात् संसारित्वसाधारणत्वासिद्धेः । अत एव - मुक्तत्वं सापवादम् । इति एवं कथमस्य - मुक्तत्वस्य संसारिष्वपि २० भावः ? नैवेत्यर्थः ॥
एतेनेत्यादि । एतेन - अनन्तरोदितेन तथाहि न वः संसार्यपीत्यादि मूलपूर्वपक्षोक्तं' यावन्नेदमकृत्स्नं संसारित्वं हेयानर्थोत्कर्ष इत्येतदपि प्रत्युक्तम् । कथमित्याह - अर्थतस्तुल्ययोगक्षेमत्वात् । एतदेवाह संसार्यन्तरेत्यादिना । संसार्यन्तररूपेण विवक्षितसंसारिणः असंसारित्वम्; अन्यथा - एवमनभ्युपगमे २५ तदभावप्रसङ्गः - विवक्षितसंसार्यभावप्रसङ्गः संसार्यन्तररूपेणापि भावात् तत्स्वरूपवदित्युक्तप्रायं प्रायेणोक्तम् । सङ्केशकृदित्यादि । सङ्कुशकृत् कर्मयोगश्वसंक्लेशकरणशीलकर्मसम्बन्धश्च संसारित्वमिति कृत्वा तद्भावेन - संक्लेशकृत्कर्मयोगभावेन नेदं संसारित्वमकृत्स्नम् - असम्पूर्णम् अपि तु कृत्स्नमेव । इतिएवं कथं न हेयानर्थोत्कर्षः १ । एतदिति एवं भावनामात्रमेतत् - अनन्त - ३० रोदितमिति ॥
7
१ द्रष्टव्यमाद्यस्य खण्डस्य ३२तमं पृष्ठम् । २ 'संसार्युत्तररूपे ०' इति ग-पाठः । संसारि०' इति ङ-पाठः । ४ आद्ये खण्डे ३२ तमे पृष्ठे |
३ 'मुकस्य