________________
२३० अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम्) च सत्युक्तो दोष इति। सत्त्वाद्यन्यत्वे तु तस्यासत्त्वादित्वप्रसङ्ग इति
चेत्, क एवमाह तदन्यदेव तत्, अपि तु स्याद्वादः कथञ्चिदन्यत् ५ कथञ्चिदनन्यत् । एकान्तान्यत्वानन्यत्वयोस्त्वितरेतरविकलतोभयखरूपानुपपत्तिभ्यां तदसत्त्वापत्तिलक्षणोऽनिवारितप्रसरो दोषा सूक्ष्मधिया भावनीय इति ॥
(खो० व्या०) सति-एवं च सति उक्तो दोषः, देवदत्तादिषु सत्त्वादिभावेन तद्भावप्रसङ्ग• लक्षण इति । सत्त्वेत्यादि । सत्त्वाद्यन्यत्वे पुनः तस्य-मुक्तत्वादेः किमित्याह
असत्त्वादित्वप्रसङ्गः । 'आदि'शब्दादज्ञेयत्वादिपरिग्रहः । इति चेत्, एतदाशङ्याह-क एवमाहेत्यादि । क एवमाह यदुत तदन्यदेव तस्मात्-सत्त्वादेः अन्यदेव-अर्थान्तरभूतमेव तत्-मुक्तत्वादि, अपि तु स्याद्वादः। किंविशिष्ट इत्याहकथञ्चिदन्यत् स्खलक्षणादिभेदात् कथञ्चिदनन्यदितरेतरानुवेधादेरिति । विपक्षे ५ याधामाह एकान्तेत्यादिना । एकान्तान्यत्वं चानन्यत्वं च मुक्तसत्त्वादि, मुक्तत्वादीनामिति प्रक्रमः । एकान्तान्यत्वानन्यत्वे तयोः पुनः किमित्याह-इतरेतरविकलता चैकान्तान्यत्वे उभयरूपानुपपत्तिश्च एकान्तानन्यत्वे इतरेतरविकलतोभयखरूपानुपपत्ती आभ्याम् । किमित्याह-तदसत्त्वापत्तिलक्षणः तेषां-मुक्तसत्त्वादिमुक्तत्वादीनामसत्त्वापत्तिः तदसत्त्वापत्तिः सैव लक्षणमस्येति विग्रहः । अनिवारित२०प्रसरो दोष आपद्यत एवेत्यर्थः । सूक्ष्मधिया भावनीय इति अक्षरगमनिका ।
भावार्थस्तु यदि मुक्तसत्त्यादि-मुक्तत्वादीनामेकान्तेन भेदः, तत इतरेतरविकलता द्वयोरपि । एवं चासत्त्वं द्वयोरपि, तथा परस्परविकलयोर्विशेष्यत्वाद्ययोगात् । अथाभेदः तत उभयस्वरूपानुपपत्तिः, मुक्तसत्त्वादेर्मुक्तत्वाधभेदात् तत्स्वरूपतया, मुक्तत्वादेवा मुक्तादिसत्त्वरूपतयेति ॥
(विवरणम्) (१४) स्वलक्षणादिभेदादिति । स्वलक्षणं-स्वरूपं तद्भेदात् । तथाहि-मुक्तत्वस्य सर्वकर्मनिर्मूलप्रलयः स्वरूपम् , सत्त्वस्य तु विद्यमानता स्वरूपम् । 'आदि'शब्दाद् दिकालादिभेदपरिग्रहः । तथाहि सार्वत्रिकं सत्त्वम् , भवेऽपवर्गे च भावात् । मुक्तत्वं निर्वाणपुरप्रविष्टानामेव प्राणिनामिति ॥
.१ 'लक्षणो निवारितः' इति ग-पाठः। २ 'दन्यत्वखलक्षणा०' इति क-पाठः। ३ 'मुक्तत्वादिमुक्तत्वा०' इति क-पाठः। ४ 'सत्त्वादिमुक्तसत्त्वादीना०' इति ङ-पाठः ।