________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् (मूलम् )
दोषः । न च य एव सत्त्वादिपर्यायः स एव मुक्तपर्यायः, प्रतीतिभेदात्, एकान्तैकत्वे सत्त्वादेरेव मुक्तत्वप्रसङ्गात् । अस्त्वेवमपि न दोष एवेति चेत्, न, देवदत्तादिषु सत्त्वादिभावेन तद्भावप्रसङ्गात् । ५ सोsन्य एव सवादिरिति चेत्, कस्तयोरन्यत्वहेतुरिति वाच्यम् । मुक्तत्वामुक्तत्वे एवेति चेत्, न, तयोस्तदन्यत्वहेतुत्वेन तद्भेदसिद्धेः, सर्वथैकत्वे तु द्वयोरपि सत्त्वादिमात्रत्वाविशेषाद् भेदाभावः, तथा ( स्त्रो० व्या० )
दोषः । न चेत्यादि । न च य एव सत्त्वादिपर्यायः स एव मुक्तपर्यायः । " कुत इत्याह-प्रतीतिभेदात् अधिकृतपर्याययोः । एकान्तैकत्वे तयोः किमित्याहसरवादेरेव पर्यायस्य मुक्तत्वप्रसङ्गात् । अस्त्वित्यादि । अस्तु भवतु एवमपि सत्त्वादेरेव मुक्तत्वप्रसङ्गेऽपि न दोष एव । इति चेत्, एतदाशङ्कयाहनेत्यादि । न-नैतदेवं देवदत्तादिषु प्राणिषु सत्त्वादिभावेन हेतुना तद्भावप्रसङ्गात्—मुक्तत्वभावप्रसङ्गात् । स इत्यादि । सः - देवदत्तसम्बन्धी अन्य एव १५ सत्त्वादिः पर्यायः । इति चेत्, एतदाशयाह- क इत्यादि । कः तयोः - देवदत्तसत्त्वादि- मुक्तसत्त्वाद्योः अन्यत्वहेतुरिति एतद् वाच्यम् । मुक्तत्वामुक्तत्वे एवेति चेत् तयोरन्यत्वहेतू । एतदाशङ्कयाह - नेत्यादि । न-नैतदेवं तयो::-मुक्तत्वामुक्तत्वयोस्तदन्यत्व हेतुत्वेन - मुक्तसत्त्वदेवदत्तसत्त्वान्यत्वहेतुत्वेन हेतुना तद्भेदसिद्धेः - मुक्तसंत्त्व - देवदत्तसत्त्वाभ्यां मुक्तत्वभेदसिद्धेः । सर्वथेत्यादि । सर्वथा - २० एकान्तेन तदेकत्वे - मुक्तसत्त्वाद्यमुक्तसत्त्वाद्येकत्वे पुनः द्वयोरपि - मुक्तसत्त्व - देवदत्तसत्त्वयोः सत्त्वादिमात्रत्वाविशेषात्, 'आदि' शब्दाच्चैतन्यादिग्रहः, भेदाभावः विशेषणविशेष्याव्यतिरिक्ततया तन्मात्रत्वोपपत्तेरिति भावार्थः । तथा च (विवरणम् )
अधिकारः ]
२२९
(२३) विशेषणविशेष्याव्यतिरिक्ततया तन्मात्रो (?) पपत्तेरिति । चैतन्य - २५ संसारित्व - मुक्तत्वादीनि विशेषणानि, सत्त्वं तु विशेष्यम् । ततो विशेषणानां विशेष्यस्य चाव्यतिरिक्ततया विशेषणानां विशेष्यमात्रतयेत्यर्थः । तस्मात् सत्त्वोपपत्तेरिति । चैतन्यं संसारित्वमात्रात् कथञ्चिद् व्यतिरिक्तं नाभ्युपगम्यते तदा सत्त्वमात्रस्य सर्वत्राविशेषात् संसारी मुक्तः स्यात्, मुक्तो वा संसारी इति ॥
}
१ ‘कः स, मुक्तत्वा०' इति ग- पाठः । २ 'न्यत्वे हेतुत्वेन' इति ग - पाठः | ३ ' पर्यायस्यामुक्त० ' इति ङ-पाठः । ४ 'सत्त्वादिपर्यायः' इति क- पाठः । ५ 'सत्त्वे देव०' इति ङ-पाठः । ६ ' तदहेतुकत्वे तु मुक्तसत्त्वाद्येकत्वे' इति क- पाठः । ७ 'व्यतिरिक्तानि नाभ्युप०' इति च पाठः ।